________________
३६
नि. ( ११३५ ) जइवि य पडिमाउ जहा मुनिगुणसंकम्पकारणं लिंगं । उभयमवि अत्थि लिंगे न य पडिमासूभयं अत्थि ।।
आवश्यक मूलसूत्रम् - २- ३/१०
-
बृ- यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा-व्रतादयस्तेषु सङ्कल्पः- अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारणं निमित्तं मुनिगुणसङ्कल्पकारणं 'लिङ्गं' द्रव्यलिङ्गं, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे सावद्यकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्प स विपर्याससङ्कल्पः क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात, ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम् आह-इत्थं तर्हि निरवद्यकर्मरहितत्वात सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति, उच्यते, तस्य तीर्थकरगुणाध्यारोपेण प्रवृत्तेर्नाभाव इति गाथार्थः नि. ( ११३६ ) नियमा जिनेसु उगुणा पडिमाओ दिस्स जे मने कुणइ । अगुणे उ वियाणतो कं नमउ मने गुणं काउं ? ।।
वृ- 'नियमादि' ति नियमेनावश्यंतया 'जिनेष्वेव' तीर्थकरेष्वेव, तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान 'मनसि करोति' चेतसि स्थापयति पुनर्नमरकरोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावद्यकर्मरहितत्त्वात् न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावद्यकर्मोपितवस्तुविषयत्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, 'अगुणे उ' इत्यादि अगुणानेव तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन' अवबुध्यमानः पार्श्वस्थादीन 'कं नमउ मने गुणं काउं' कं मनसि गुणं कृत्वा नमस्करोतु तानिति ?, स्यादेतत्अन्यसाधुसम्बन्धिनं तेष्वघ्यारोपद्वारेण मनसि कृत्वा नमस्करोतुं न तेषां सावद्यकर्मयुक्तयाऽध्यारोपविषयलक्षणविकलत्वात, अविषये चाध्यारोपं कृत्वः नमस्कुर्वतो दोषदर्शनाद् ।।
नि. (११३७ ) जह वे लंबगलिंगं जाणंतस्स नमओ हवइ दोसो । निर्द्धधसमिय नाऊण बंदमाणे धुवो दोसो ।
वृ- यथा 'विडम्बकलिङ्ग' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः ' नमस्कुर्वतः सतोऽस्य भवति 'दोष: ' प्रवचनहीलनादिलक्षणः, 'निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् ‘इय’ एवं ‘ज्ञात्वा’ अवगम्य 'वन्दमाने धुवो दोसो' वन्दति - नमस्कुर्वति सति नमस्कर्तरि ध्रुवःअवश्यंभावी दोषः - आज्ञाविराधनादिलक्षणः, पाठान्तरं वा 'निद्धंधसंपि नाऊणं वंदमानस्स दोसा उ' इदं प्रकटार्थमेवेति गाथार्थः । । एवं न लिङ्गमात्रमकारणतोऽवगतसावद्यक्रियं नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यं, भावलिङ्गगर्म तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात रूपकदृष्टान्तश्चात्र, आह च
नि. ( ११३८ ) रूप्पं टंकं विसमाहयक्खरं नवि रूवओ छेओ ।
दुपि समाओगे रूवो छेयत्तणमुवेइ ||
वृ- अत्र तावच्चतुर्भङ्गी रूपम अशुद्धं टङ्कं विषमाहताक्षरमित्येकः, रूपमशुद्धं टङ्कं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टङ्कं विषमाहताक्षरमिति तृतीय, रूपं शुद्धं टङ्कं समाहताक्षरमिति चतुर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org