________________
अध्ययनं -३- [नि. ११३०]
वृ-तीर्थकरस्य गुणा-ज्ञानादयस्तीर्थकरणगुणाः ते 'प्रतिमासु' बिम्बलक्षणासु 'नत्थि' न सन्ति 'निःसंशयं' संशयरहितं विजानन' अवबुध्यमानः तथाऽपितीर्थकरोऽयमित्येवंभावशुद्धया नमन प्रणमन 'स' प्रणामकर्ता प्राप्नोति' आसादयति निर्जरां' कर्मक्षयलक्षणां 'विपुलं' विस्तीर्णामिति गाथार्थः । । एष दृष्टान्तः, अयमर्थोपनयःनि. (११३१) लिंगं जिनपन्नत्तं एव नमंतस्स निज्जरा विउला ।
जइवि गुणविप्पहीणं वंदइ अज्झप्पसोहिए ।। वृ-लिङ्गयतेसाधुरनेनेति लिङ्ग-रजोहरणादिधरणलक्षणं जिनैः-अर्हदिमः प्रज्ञप्त-प्रणीतम् ‘एवं' यथा प्रतिमा इति ‘नमस्कुर्वतः' प्रणमतो निर्जरा विपुला, यद्यपि गुणैः-मूलोत्तरगुणैर्विविधम्अनेकधा प्रकर्षणहीनं-रहितं गुणविप्रहीणं, 'वन्दते' नमस्करोति 'अध्यात्मशुद्धया' चेतःशुद्धयेति गाथार्थः ।। इत्थं चोदकेनोक्ते दृष्टान्तदान्तिकयोर्वेषम्यमुपदर्शयन्नाचार्य आहनि. ११३२) संता तित्थयरगुणा तित्थयरे तेसिमंतु अज्झप्पं ।
नय सावज्जा किरिया इयरेसुधुवा समणुमन्ना ।। वृ- 'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थकरगुणा-ज्ञानादयःक्क? - 'तीर्थकरे' अर्हतिभगवति इयं च प्रतिमा तस्य भगवतः ‘तेसिमंतुअज्झप्पं तेषां-नमस्कुर्वतामिदमध्यात्मम्इदं चेतः, तथा न च तासु ‘सावद्या' सपापा 'क्रिया' चेष्टा प्रतिमासु, ‘इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः तत्र कित्यित आह-'समणुमण्णा' समनुज्ञा क्रियासावधेयुक्तपार्श्वस्थादिप्रणमनात सावधक्रियानुमतिरिति हृदयम, अथवा सन्तस्तीर्थकरगुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम-इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः न च सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु-पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुळूवा समनुज्ञेति गाथार्थः ।। पुनरप्याह चोदकःनि.(११३३) जहसावज्जा किरिया नस्थिय पडिमासु एवमियराऽवि ।
तयभावे नत्थि फलं अह होइ अहेउगं होइ ।। वृ- यथा सावद्याक्रिया-सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु, एवमितराऽपिनिरवद्याऽपिनास्त्येव, ततश्च तदभावे' निरवद्यक्रियाऽभावे नास्ति फलं' पुण्यलक्षणम्, अथभवति 'अहेतुकं भवति निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुकत्या(भावा)त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाधभाव इति गाथार्थः । । इत्थं चोदकेनोक्ते सत्याहाचार्य:नि.(११३४) कामं उभयाभावो तहवि फलं अस्थि मनविसुद्धीए ।
तीइ पुण मनविसुद्धीइकारणं होति पडिमाउ ।। वृ- 'कामम्' अनुमतमिदं, यदुत 'उभयाभावः' सावद्येतरक्रियाऽभावः प्रतिमासु, तथाऽपि 'फलं' पुण्यलक्षणम् ‘अस्ति' विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धेः सकाशात्, तथाहि-स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात्, यद्येवं कि प्रतिमाभिरिति?, उच्यते, तस्याः पुनर्मनोविशुद्धेः 'कारणं' निमित्तं भवन्ति प्रतिमाः, तद्वारेण तस्याः सम्भूतिदर्शनादिति गाथार्थः ।
आह-एवं लिङ्गमपि प्रतिमावन्म-नोविशुद्धिकारणं वत्येवेति उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org