________________
आवश्यक-मूलसूत्रम् -२- ३/१० संपुच्छणऽच्छणंछोभवंदनं वंदनं वावि ।। वृ. 'वायाए'त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते-हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकायपिक्षं वा तस्यैव 'नमोक्कारो'त्ति नमस्कारः क्रियते-हे देवदत! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्चक्रियते, सीसनमनंच' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्रद्रष्टव्यः, अच्छाणं तित (द्धहुमानस्त) त्सन्निधावासनंकञ्चित्कालमिति, एष तावद्धहिर्दष्टस्य विधिः, कारण विशेषतः पुनस्तत्प्रतिश्रयमपिगम्यते, तन्नप्येष एव विधिः, नवरं 'छोभवंदनं ति आरभट्या छोभवन्दनं क्रियते, 'वन्दनं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ।। एतच्च वाङ्नमनस्कारादि नाविशेषेण क्रियते, किं तहिं?नि.(११२८) परियायपरिसपुरिसे खित्तं कालं च आगमं नया ।
कारणजाए जाणे जहारिहं जस्स जं जुर्ग ।। वृ- पर्यायश्च परिषच्च पुरुषश्च पर्यायपरिषतपुरुषास्तान, तथा क्षेत्रं कालं च आगमं 'नचत्ति ज्ञात्वा-विज्ञाय 'कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति 'यथार्ह' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद 'योग्य' समनुरूपं वाङ्गमस्कारादि तत्तस्य, क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः । साम्प्रतमवयवार्थ प्रतिपादयन्नाह भाष्यकार:[भा.२०४] परियाय बंभचेरं परिस विनीया सि पुरिस नचा वा ।
कुलकज्जादायत्ता आघवउ गुणागमसुयं वा ।। वृ- 'पर्यायः' ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा-तत्प्रतिबद्धा साधुसंहतिः शोभना 'से' अस्य 'पुरिस नञ्चा वत्ति पुरुषं ज्ञात्वा वा, अनुस्वारलोपाऽत्र द्रष्टव्यः, कथं ज्ञात्वा ? -कुलकार्यादीन्यनेनायत्तानि, आदिशब्दावणसङ्घकार्यपरिग्रहः, ‘आघवउत्ति आख्यातः तस्मिन क्षेत्रे प्रसिद्धस्तद्धलेन तत्रास्यत इति क्षेत्रद्वारार्थः, ‘गुणाऽऽगमसुयं वत्ति गुणाअवमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः-सूत्रार्थोभयरूपः, श्रुतं-सूत्रमेव, गुणाश्चाऽऽगमश्च श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः ।। नि. (११२९) एताइअकुच्वंतो जहारिहं अरिहदेसिए मग्गे ।
नभवइपवयणभत्ती अभत्तिमंतादओ दोसा ।। वृ. 'एतानि' वाङ्नमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमर्हद्दर्शिते मार्गे न भवति प्रवचनभक्तिः , ततः किमित्यत आह-'अभत्तिमंतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात स्वार्थभ्रंशबन्धनादय इति गाथार्थः ।। एवमुद्यतेतरविहारिंगते विधौ प्रतिपादिते सत्याह चोदक:- किं नोऽनेन पर्यायाद्यन्वेषणेन ?, सर्वथा भावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् न हि तद्गुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहिनि.(११३०) तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो ।
तित्थयत्ति नमंतो सो पावइ निज्जरं विउलं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org