________________
अध्ययनं - ३ [नि. ११०८] नि. (११०८)
२९
पासत्थाई वंदमानस्स नेव कित्ती न निज्जरा होइ । कायकिलेस एमेव कुण तह कम्मबंधं च ।।
वृ- 'पार्श्वस्थादीन्' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः अहो अयं पुण्यभागित्येवंलक्षणा सा भवति, अपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति तथा निर्जरणं निर्जरा-कमृक्षयलक्षणा सा न भवति, तीर्थकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति कायः - देहस्तस्य क्लेशः - अवनामादिलक्षणः- कायक्लेशस्तं कायक्लेशम 'एवमेव' मुधैव 'करोति' निर्वर्तयति, तथा क्रियत इति कर्म-ज्ञानावरणीयादिलक्षणं तस्य बन्धो- विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्व दोषानवाप्नुते, कथं ?भगवतप्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान वन्दमानान दृष्ट्वाऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः । । एवं तावत्पार्श्वस्थादीन वन्दमानस्य दोषा उक्तः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह
-
नि. (११०९)
भरभट्टा पाए उड्डति बंभयारिणं ।
ते होति कुंटमंटा बोही य सुदुल्लहा तेसिं ।।
बृ-ये- पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथौघतः संयमवाचकश्च, 'पाए उड्डिति बंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्द्वननिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति तदाऽपि भवन्ति कोंटमण्टाः 'बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषां सकृत्प्राप्तौ सत्या मप्यनन्तसंसारित्वादिति गाथार्थः । । तथानि. (१११०)
सुठुतरं नासंती अप्पाणं जे चरित्तपब्भट्ठा । गुरुजन वंदाविंती सुसमण जहुत्तकारिंच ।।
वृ- 'सतरं 'ति सुतरां नाशयन्त्यात्मानं सन्मार्गात्, के ? - ये चारित्रात प्राग्निरूपितशब्दार्थात् प्रकर्षेण भ्रष्टा:- अपेताः सन्तः 'गुरुजनं' गुणस्थसुसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति, किम्भूतं गुरुजनं ? - शोभनाः श्रमणा यस्मिन स सुश्रमणस्तं अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्तं क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं यथोक्तकारिणं चेति गाथार्थः । । एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीयाः, किमित्यत आह
नि. (११११)
असुइट्ठाणे पंडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तह अपुज्जा ।।
वृ- यथा 'अशुचिस्थाने' विट्प्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान्न क्रियते शिरसि, पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा 'अपूज्याः ' अवन्दनीयाः, पार्श्वस्थादीनां स्थानानि वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपि;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-