________________
२६
आवश्यक - मूलसूत्रम् - २- ३/१० जनकम्, असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसम्बध्यते, तथा 'गुरु' पितामहादिलक्षणम, असंयतत्वं सर्वत्र योजनीयं तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः- गणराजेत्यर्थः, तं सेनापतिं, 'प्रशस्तारं' प्रकर्षेण शास्ता प्रशास्ता तंधर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसहार्थ दैवतग्रहणं, चशब्दालेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ।।
इदानीं यस्य वन्दनं कर्तव्यं स उच्यतेनि. (११०६)
समणं वंदिज्ज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुछगं ।।
वृ- श्रमणः - प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत ' नमस्कुर्यात्, कः ?- 'मेधावी' न्यायायवस्थितः, स खलु श्रमणः नामस्थापनादिभेदमिन्नोऽपि भवति, अत आह- 'संयतं' समएकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायती लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह- 'सुसमाहित' दर्शनादिषु सुष्ठुसम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्श्यते पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पञ्चसमितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्तं, प्राणातिपातादिलक्षणोऽसंयमः असंयमं गर्हति- जुगुप्सतीत्यसंयमजुगुप्सक स्तम, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः । । आहकिमिति यस्य कर्तव्यं वन्दनं स एवादौनोक्तः ?, येन येषां न कर्तव्यं मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति- कोदुदघटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र मा भूत्प्रपञ्चितज्ञानां मतिः-उक्तलक्षणस्य श्रमणस्य कर्तव्यं मात्रादीनां तुन विधिर्न प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यघेवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति ? अत्रोच्यते, हिताप्रवृत्तेरहितप्रवृत्तिर्गुरु संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गन, प्रकृतं प्रस्तुमःश्रमणं वन्देत मेघावी संयतमित्युक्तं, तत्रेत्थम्भूतमेव वन्देत, न तु पार्श्वस्थादीन, तथा चाह - नि. (११०७ ) पंचन्हं किइकम्मं मालामरुएण होइ दितो ।
वेरुलियाणदंसणनीयावासे य जे दोसा ।।
वृ- 'पञ्चानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां 'कृतिकर्म' वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयं च वाक्यशेषः 'श्रमणं वन्देत मेघावी संयत' मित्यादिग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात्, यथा संयतानामपि ये पार्श्वस्थादिभिः सार्द्धं संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यं, आह-कुतोऽयमर्थोऽवगम्यते ?, उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात्, वक्ष्यते च- 'असुंडाणे पडिया' इत्यादि, तथा 'पैक्कणकुले' इत्यादि 'वेरुलिय'त्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च- 'सुचिरंपि अच्छमाणो वेरुलिओ' इत्यादि, तत्प्रत्यवस्थानं च 'अंबस्स य निंबस्स ये' त्यादिना सप्रपञ्चं वक्ष्यते, 'नाण'त्ति दर्शनचारित्रासेवनसामर्थ्यविकला ज्ञाननयप्रधाना एवमाहुः - ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते 'कामं चरणं भावो तं पुण नाणसहिओ समाणेह ।
नयनाणं तु न भावो तेर नाणी पणिवयामो ।।
'दंसण 'त्ति ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुः - दर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International