________________
अध्ययनं -३. [नि. ११०३/१]
२३ 'डुकृञ् करणे' अस्यापिक्तिनप्रत्ययान्तस्य करणंकृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः-मोक्षायावनामादिचेष्टैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म, कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चायं, क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मेति वचनात्, क्वचित ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' इति वचनात्, क्वचित् क्रियावाचकः, 'गन्धर्वा रज्जिताः सर्वे, सङ्ग्रामे भीमकर्मणे ति, वचनात, इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल' इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाकायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दः पूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः, ‘णीञ्प्रापणे' इत्यस्य एरचिति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते वाऽनेनाष्टप्रकारकर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः
कायवं कस्सव केण वावि काहेवकइनुत्तो? कओणयं कसिरंकइहिं च आवस्सएहि परिसुद्धं । नि.(११०३/२) कइदोसविप्पमुक्कं किइकम्मं कीस कीरइवा?
वृ-इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि 'कदा वा' कस्मिन वा काले ‘कतिकृत्वोवा' कियत्यो वा वाराः?
अवनतिः-अवनतं, कत्यवनतं तद्वन्दनं कर्तव्यं ?, कतिशिरः कति शिरांसि तत्रभवन्तीत्यर्थः, कतिभिरावश्यकैःआवर्तादिभिः परिशद्ध, कतिदोषविप्रमुक्तं, टोलगत्यादयो दोषाः, 'कृतिकर्म' वन्दनकर्म कीस कीरइत्ति किमिति वा क्रियत इति गाथाद्वयसंक्षेपार्थः ।। अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दष्टेश्च, भावतः सम्यग्दृष्टरुपयुक्तस्य, चितिकर्मापि द्विधैव-द्रव्यती भावतश्च, द्रव्यतस्तापसादिलिङ्ग ग्रहणकर्मानुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च, भावतः सम्यग्दृष्टयुपयुक्ता रजोहरणाद्दुपधिक्रियेति, कृतिकर्मापि द्विधा-द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुप-युक्तसम्यग्उष्टीनां च, भावतः सम्यग्दृष्टयुपयुक्तानामिति, पूजाकर्मापि द्विधाद्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्टयुपयुक्तानामिति, विनयकर्मापि द्विधा-द्रव्यतो नियादीनामनुपयुक्तसम्यग्दृष्टीनांच, भावत उपयुक्तसम्यग्दृष्टीनां विनय-क्रियेति ।।
साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान् प्रतिपादयन्नाहनि.(११०४) सीयले खुड्डए कण्हे सेवए पालए तहा ।
पंचते दिटुंता किइकम्मे होति नायव्वा ।। वृ-सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति । कः पुनः शीतल: ? तत्र कथानकम-एगस्स रन्नो पुत्तो सीयलो नाम, सोयनिविण्णकामभोगो पव्वतिओ, तस्स य भगिनी अन्नस्स रन्नो दिन्ना, तीसे चत्तारि पुत्ता, सा तेसिं कहतरेसु कहं कहेइ, जहा तुज्झ मातुलओ पुवपव्वइओ, एवं कालो बच्चइ । तेऽवि अन्नया तहारूवाणां थेराणं अंतिए पव्वइया चत्तारि, बहुस्सुया जाया, आयरियं पुच्छिउंमाउलगं वंदगा जंति । एगंमिनयरे सुओ, तत्थ गया, वियालो जाउत्तिकाउं वाहिरियाए ठिया, सावगो य नयरं पवेसिउकामो सो भणिओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org