________________
आवश्यक-मूलसूत्रम् -२- २/९ भ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च'चंदाइच्चगहाण मित्यादि, सागरवरादपि गम्भीरतराः, तत्र सागरवरः-स्वयम्भूरमणोऽभिधीयते परीषहोपसर्गाद्यक्षोभ्यत्वात तस्मादपि गम्भीरतरा इति भावना, सितं-मातमेतेषामति सिद्धाः, कर्मविगमात कृतकृत्याइत्यर्थः, सिद्धिं-परमपदप्राप्ति मम दिसंतु'मम प्रयच्छन्त्विति सूत्रगाथार्थः । नि.(११०२) चंदाहच्चगहाणं पहा पयासेइ परिमिअं खित्तं ।
केवलिअनाणलंभो लोगालोगंपगासेइ ।। वृ. 'चन्द्रादित्यग्रहाणा'मिति, अत्रग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योतस्ना ‘प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तद्व्यपदेशः, यथा मञ्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकं 'प्रकाशयति' सर्वधर्मेंरुद्योतयतीति गाथार्थः । । उक्तोऽनुगमः, नयाः सामायिकवद्रष्टव्याः ।।
व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः ।।
अध्ययनं-२ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे द्वितीय अध्ययननं सनिर्युक्तभाष्यटीकापरिसमाप्तं ।
(अध्ययनं-३ "वन्दनं") वृ-साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्ययने सावद्ययोगविरतिलक्षणसामायिकोपदेष्ट्रणामर्हतामुत्कीर्तनं कृतम्, इह त्वर्हदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येतिप्रतिपाद्यते, यद्व चतुर्विंशतिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः यथोक्तम्-‘भत्तीए जिनवराणं खिज्जत्ती पुव्वसंचिआ कम्म'त्ति, वन्दनाघ्ययनेऽपि कृतिकर्मरूपायाः साधुभक्तेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च
___"विनओवयार मानस्स भंजणा पूयणा गुरुजनस्स ।
तित्थगराण य आणा सुयधम्माराहणाऽकिरिया ।।। अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेत्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदंत्रितयमुक्तम्, अस्य च वितथासेवनायामहिकामुष्मिकायापरजिहीर्षुणा गुरोर्निवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरुप्यते- 'वदि अभिवादनस्तुत्योः' इत्यस्य करणाधिकरणयोश्चे' तिल्युट, 'युवोरनाकावि' त्यनादेशः, 'इदितो नुम् धातो रिति नुमागमः, ततश्च वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम, अस्याधुना पर्यायशब्दान प्रतिपादयन्निदं गाथाशकलमाह
नि.(११०३/१) वंदनचिइकिइकम्मं पूयाकम्मंच विनयकम्मं च ।
वृ- वन्दनं-निरूपितमेव, 'चिञ् चयने' अस्य 'स्त्रियां क्तिन्' कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org