SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ६ आवश्यक - मूलसूत्रम् - २- २/३ क्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, "सुत्तं सुत्तानुगमो सुत्तालावयकओ य निक्खेवो ! सुत्तप्फासियनित्ति नया य समगं तु वच्चंति ।। " विषयविभागः पुनरमीषामयं वेदितव्यः “होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगमो । सुत्तालावयनासो नामान्नासविनिओगं ।।" सुत्तफासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सोच्चिय नेगमनयाइमयगोयरो भणिओ ।। अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरुपिता एव नेह वितन्यत इत्यलं विस्तरेण, तावद् यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम्लोगस्सुजोयगरे, धम्मतित्थयरे जिणे । मू. (३) अरिहंते कित्तइस्सं, चउवीसंपि केवली || वृ- तल्लक्षणं चेदं - 'संहिता चे 'त्यादि पूर्ववत्, तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति, सा चेयं- 'लोगस्सुज्जोय गरे' इत्यादि पाठः । अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थ:-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ? - उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-" "दुर्गतिप्रसृतान् जीवा' नित्यादि, तथा तीर्थतेऽनेनेति तीर्थं धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थं तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजे तृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तानर्हतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान केवलित इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सुत्रस्पर्शिका निर्युक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च - "अक्खलियसंहियाई वक्खाणच उक्कए दरिसियंमि । सुतप्फासियनिञ्जुत्तिवित्थरत्थो इमो होइ ।।" चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरुपणायाऽऽहनि. (१०५७) नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ ६ भावे अ ७ । पज्जवलोगे अ ८ तहा अडविहो लोगनिक्खेवो || वृ- नालोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः 1 । व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराह [ भा. १९५ ] जीवजीवे रुवमरुवी सपएसमप्पएसे अ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy