________________
अध्ययनं -२- [नि. १०५६] मोक्षसाधनमिति गम्यते ।। किं च षड्जीवहितमित्यत आह[भा.१९३] छज्जीवकायसंजमु दव्वथए सो विरुज्झई कसिणो ।
तो कसिणसंजमविउ पुष्फाईअंनइच्छंति ।। वृ. 'षड्जीवकायसंयम' इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमःसङ्घटनादिपरित्यागः षड्जीवकायसंयमः, असौ हितं, यदि नामैवं ततः किमित्यत आह-'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' षड्जीवकायसंयमः, किं?-'विरुध्यते' न सम्यक् संपद्यते, ‘कृत्स्नः' सम्पूर्ण इति, पुष्पादिसंलुञ्चनसङ्घनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् ‘कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहाथं, ते किम् ?, अत आह-'पुष्पादिकं' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यच्चोक्तं-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुम एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति, शुभाध्यवसायभावेऽपि तस्यैवभावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, ‘फलप्रधानास्समारम्भा' इति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमेनं (त्त्वात्तमेव च) दृष्टा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति स्वपरानुग्रहोऽपीहैवेति गाथार्थः ।। आह-यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्तते ? आहोस्विदुपादेयोऽपि?, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाह भाष्यकारः[भा.१९४] अकसिणपवत्तगाणं विरयाविरयाण एसखलु जुत्तो।
संसारपयणुकरणो दव्वथए कूवदिलुतो ।। वृ-अकृत्स्नंप्रवर्तयतीतिसंयममितिसामर्थ्याद्भ्यते अकृत्स्नप्रवर्तकास्तेषां, ‘विरताविरतानाम्' इति श्रावकाणाम् ‘एष खलु युक्तः' एष-द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह-'संसारप्रतनुकरणः' संसारक्षयकारक इत्यर्थः, द्रव्यस्तवः आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जहा नवनयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थ कूपं खणंति, तेसिं च जइवि तण्हादिया वटुंति मट्टिकाकद्दमाईहि य मलिनिजन्ति तहावि तदुब्भवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य फिट्टइ, सेसकालंच ते तदन्ने य लोगा सुहभागिणो हवंति । एवं दव्वथए जइवि असंजमो तहावि तओ चेव सा परिणामसुद्धी हवइ जाए असंजमोवज्जियं अन्नं च निरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दव्वत्थओकायव्वो,सुभानुबंधी पभूयतरनिजरालो यत्ति काउणमिति गाथार्थः ।। उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थो निरुपणीयः, स चानुयोगद्वारेषु न्यक्षेण निरुपति एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा- ‘उद्देसे निद्देसे' इत्यादि, किं कइविह' मित्यादि । सूत्रस्पर्शिकनियु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org