SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आवश्यक-मूलसूत्रम् -२- २/३ तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाह[भा.१९०] नामंठवणा दविए खित्ते काले तहेव भावे अ । चउवीसइस्स एसो निक्खेवो छव्विहो होइ ।। वृ-तत्रनामचतुर्विंशतिर्जीवाश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दो का, स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाञ्चिस्थापनेति, द्रव्यचतुर्विंशति चतुर्विंशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दाप)दभेदभिन्नानि, अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकालङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रदेशा वा चतुर्विंशतिप्रदेशावगाढं वा द्रव्यमिति, कालचतुर्विंशतिः चतुर्विंशतिसमयादय इति एतावत्कालस्थितिवाद्रव्यमिति, भावचतुर्विंशतिः चतुर्विशतिभावसंयोगाश्चतुर्विंशतिगुणकृष्णंवा द्रव्यमिति, चतुर्विंशतेरेष निक्षेपः षड्विधो भवति' षट्प्रकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इतिगाथार्थः ।। उक्ता चतुर्विंशतिरिति, साम्प्रतंस्तवः[भा.१९१] नामं ठवणा दविए भावे अथयस्स होइ निक्खेवो । दव्वथओ पुप्फाईसंतगुणक्वित्तणा भावे ।। वृ-तत्र 'नामोति नामस्तवः 'स्थापने'ति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयो द्रव्यस्तवः, 'भावे चेति भावविषयश्च भावस्तव इत्यर्थः, इत्थं स्तवस्य भवति 'निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तवस्वरुपमेवाह-'द्रव्यस्तवः पुप्पादि'रिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराचैवमाह, अन्यथा द्रव्यस्तवः पुष्पादिभिः समभ्यर्चनमिति, तथा 'सद्गुणानामुत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृषावाद इति, सद्गुणानामुत्कीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा "प्रकाशितं यथैकेन, त्वया सम्यग् जगत्त्रयम् । समग्रैरपि नो नाथ!, परतीर्थाधिपैस्तथा ।। विद्योतयति वा लोकं, यथैकोऽपि निशाकरः । समुद्रतः समग्रोऽपि, किंतथा तारकागणः?।।" इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शो भावस्तवइति गाथार्थः ।।इहचालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनांचकदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च-कथइ पुच्छइ सीसो कहिंचऽपुट्ठा कहेंति आयरिया' इत्यादि, यतश्चात्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तद्व्यदासार्थं तदनुवादपुरस्सरमाह[भा.१९२] दव्वथओभावथओ दव्वथओ बहुगुणत्ति वुद्धि सिआ । अनिउणमइवयणमिणं छज्जीवहिअंजिना बिंती ।। वृ-द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तयो 'बहुगुण प्रभूततरगुण ‘इति' एवं बुद्धिः स्याद्, एवं चेत् मन्यसे इत्यर्थः, तथाहि-किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्राचतं क्रियमाणमन्येऽपि प्रतिबुद्धयन्ते इतिस्वपरानुग्रहः, सर्वमिदंसप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारताख्यापनायाऽऽह-'अनिपुणमतिवचनमिद'मिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, ‘इद'मिति य द्रव्यस्तवो बहुगुण इति, किमित्यत आह'षड्जीवहितं जिना ब्रुवते' षण्णां-पृथिवीकायादीनां हितं जिनाः-तीर्थकरा ब्रुवते, प्रधानं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy