________________
नमो नमो निम्मल दंसणस्स पञ्चम गणधर श्री सुधर्मा स्वामिने नमः
४०/ आवश्यक-मूलसूत्रम्-२
(सटीक)
प्रथम-मूलसूत्र मूलम् + भद्रबाहुस्वामि रचिता नियुक्तिः + पूर्वाचार्य रचितं भाष्यं + हरिभद्रसूरि रचितावृत्ति
( अध्ययनं-२- चतुर्विंशतिस्तव ) वृ- साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विंशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणाऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते, तच्चेदम्जात्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुरावश्यकश्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च, सच अध्ययनसमुदायरुपो वर्तते, यत उक्तम्-‘एतो एकेकं पुण, अज्झयणं कित्तइस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम्, इदानीं द्वितीयावयवत्वा द्वितीयावयवत्वस्यचाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च-'सावजजोगविरई उक्तित्तणे' त्यादि, अतो द्वितीयमुपदर्शाते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दर्श्यन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपियोजनीयम्, इदमेव सर्वाध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदन वक्ष्याम इत्यलं विस्तरेण । सम्बन्ध उच्यते-अस्य चायमभिसम्बन्धःइहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टम्, इह तु तदुपदेष्टणामर्हतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मभय उक्तः,
सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही ।
अविवजओ सुदिछित्ति एवमा निरुत्ताई।। इहापि चतुर्विंशतिस्तवेऽर्हगुणोत्कीर्तनरुपाया भक्तेस्तत्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च. 'भत्तीएँ जिनवराणंखिजंती पुव्वसंचिया कम्मत्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररुप्याः, तथा चाहनि. (१०५६) चउवीसइत्थयस्स उनिक्खेवो होइनामनिप्फनो ।
चउवीसइस्स छक्को थयस्स उचउव्विहो होइ ।। वृ- चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः, क इत्यन्यस्याश्रुतत्वादयमेव यदुतचतुर्विंशतिस्तव इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं, तत्रापिचतुर्विशतेः षट्कः स्तवस्य चतुर्विधोभवति, तुशब्दादध्ययनस्य चेति गाथासमासार्थः । । अवयवार्थं तुभाष्यकार एव वक्ष्यति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org