________________
अध्ययनं -२- [नि. १०५७ ]
जाणाहि दव्वलोगं निच्चमनिच्चं च जं दव्वं ।।
वृ- जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ- रुप्यरुपिभेदाद्, आह च- 'रुप्यरुपिणाविति, तत्रानादिकर्मसन्तानपरिगता रुपिणः संसारिणः, अरुपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरुपिणो धर्माधर्माकाशास्तिकायाः रुपिणस्तु परमाण्वादय इति एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह- 'सप्रदेशाप्रदेशावि 'ति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षतेजीवः किल कालादेशेन नियमात् सप्रदेशः लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशी वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्रलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा द्रव्यतः परमाणुरप्रदेशो द्वयणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो द्वयादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकाने कसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः । । साम्प्रतं जीवाजीवयोर्नित्यानित्यताह[भा. १९६] गई १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अनामयद्धाय २ । ती अद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ डिई चउहा ||
७
वृ- अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । अधुना क्षेत्रलोकः आगासस पएसा उड्डुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अनंत जिनदेसिअं सम्मं ।।
[ भा. १९७]
वृ- आकाशस्य प्रदेशाः प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्ध्वे च' इत्यूर्ध्वलोके च 'अवश्च' इत्यधोलोके च तिर्यग्लोके च किं ? - जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यक्' शोभनेन विधिनेति गाथार्थः । । साम्प्रतं काललोकप्रतिपादनायाह
[ भा. १९८ ]
-
समयावलिअमुहत्ता दिवसमहोरत्तपक्खमासा य ।
संयच्छरजुगपलिआ सागरओसप्पिपरिअट्टा ||
- इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्येयसमयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवस: द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, 'परावर्त' पुद्रलपरावर्तः, स चानन्तोत्सर्पिण्यवसप्रिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः । । उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भावलोकमभिधित्सुराह[ भा. १९९ ] नेरइअदेवमनुआ तिरिक्खजोणीगया य जे सत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org