________________
४०८
आवश्यक मूलसूत्रम्-१-१/२
एवं कार्मणकाययोजनाकरणमिति गाथार्थः ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम्, अधुनाऽत्र येनाधिकार इति तद्दर्शनायाऽऽहनि. (१०२८) भावसुअसद्दकरणे अहिगारो इत्य होइ कायव्यो ।
नोसुअकरणे गुणझुंजणे अ जहसंभवं होइ ।। १. भावश्रुतशब्दकरणे 'अधिकारः'अवतारो भवति कर्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्य अन्ते यथासम्भवाभिधानाद्, इह च भावश्रुतं सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव विवक्षितो न तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य ‘गुणझुंजणे यत्ति गुणकरणे योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः, तपः संयमगुणात्मकत्वाचारित्रस्य, योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोजनायामपि द्वयस्याधस्यैवेति गाथार्थः ।
साम्प्रतं सामायिककरणमेवाव्युत्पन्नवनेयवर्गव्युत्पादनार्थं सप्तभिरनुयोगद्वारैः कृताकृतादिभिः निरूपयन्नाहनि. (१०२७)कयाकयं १ केन कयं २ केसु अ दव्वेसु कीरई वावि ३ |
काहे व कारओ ४ नयओएकरणं कइविहं ६ (च) कहं ७ ?।। वृ-'कयाकयंति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत्सा-मायिकमस्याः क्रियायाः प्राक् किं कृतं क्रियते ? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षे भावादेव करणानुपपत्तेः, अकृतपक्षेऽपि वान्थ्येयादेरिव करणानुपपत्तिरेवेति, अत्र निर्वचनं, कृतं चाकृतं च कृताकृतं, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यं, तथा केषु द्रव्येष्विष्टादिषु क्रियते ?, कदा वा कारकोऽस्य भवतीति, वक्तव्यं, 'नयत' इति केनालोचनादिना नयेनेति, तथा करणं 'कइविहं' कतिभेदं 'कथं' केन प्रकारेण लभ्यत इति वक्तवयमयं गाथासमासार्थः ।। अवयवार्थं तु प्रतिद्वारं भाष्यकार एव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह[भा.१७५] उप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे ।
केणंति अस्थओ तं जिनेहिं सुत्तं गणहरेहिं ।। वृ-इहोत्पन्नानुत्पन्नं कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, द्रव्यपर्यायोभयपत्वाद्वस्तुन इति, अत्र नैगमादिनायैर्भावना कार्येति, अत एवाऽऽह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् । सा पुन भावना-इह केइ उप्पन्नं इच्छंति, केइ अनुप्पन्न इच्छंति, ते य नेगमाई सत्त मूलनया, तत्थ नेगमोऽनेगविहो, तत्थाइनेगमस्स अनुप्पन्न कीरइ नो उप्पन्नं, कम्हा?, जहा पंच अस्थिकाया निचा एवं सामाइयंपि न कयाइ नासि न कयाइ न भवदि न कयाइ न भविस्सइ, भुविं च भवइ अ भविस्सइ, धुवे निइए अक्खए अव्वए अवट्टिए निच्चे न एस भावे केणइ उप्पाइएत्तिकटु, जदावि भरहेरवएहिं वासेहिं वोच्छिन्नइ तयावि महाविदेहे वासे अब्बोच्छिती तम्हा अनुप्पन्न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org