________________
૪૦૨
आवश्यक मूलसूत्रम्-१-१/२
[भा.१६६ अंतरमेगं समयं जहन्नमोरालगहणसाडस्स |
सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ वृ- ‘अन्तरम्' अन्तरालम्, एकं समयं 'जघन्यं' सर्वस्तोकम् औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः॥ भावार्थस्तु भाष्यगाथा-भ्यामवसेयः, ते चेमे -
"उभयंतरं जहन्नं समओ निविग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उदहिनामाई ॥१॥ अनुभविउं देवाइसु तेत्तीसमिहागयस्स तइयंमी ।
समए संघायतओ नेयाई समयकुसलेहिं ॥२॥" उक्तौदारिकमधिकृत्य सर्वज्ञातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा-- [भा.१६७] वेविअसंघाओ जहन्नु समओ उ दुसमउक्कोसो ।
साडो पुण समयं चिअ विउव्वणाए विनिद्दिट्टो ।। वृ- अस्य व्याख्या-वैक्रियसनातः कालतो 'जघन्यः' सर्वस्तोकः समय एव, तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवानारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा 'द्विसमय' इति द्विसमयमान उत्कृष्टः वैक्रियसभात इति वर्तते कालश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैक्रियलब्धिमतस्तद्वि-कुर्वाणारम्भ एव वैक्रियसङ्घातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेषूपपद्यमानस्य वैक्रियमेव सङ्घातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः 'विकुर्वयाणां' वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः ।। अधुना सङ्घातपरिशाटकालमानमभिधित्सुराह[भा.१६८] संघायणपरिसाडो जहन्नओ एगसमइओ होइ ।
उक्कोसं तित्तीसं सायरणामाई समऊणा ॥ वृ-इह वैक्रियस्यैव सातपरिशाटः खलूभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः ।। भावार्थस्त्वयम्
उभयं जहन्न समओ सो पुण दुसमयविउव्दियमयस्स ।
___ परमतराइं संघातसमयहीणाई तेत्तीसं ।।१।। इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराह[भा.१६९] सव्वग्गहोभयाणं साडस्स य अंतरं विउविस्स ।
समओ अंतमुहत्तं उक्कोसं रुक्खकालीअं॥ वृ-इह 'सर्वग्रहोभययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य च 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावज्जघन्यं त्रयाणामपि कथं ज्ञायत इति चेत् ? यत आह-उत्कृष्टं 'वृक्षकालिकं वृक्षकालेनानन्तेन निवृत्तं वृक्षकालिकमिति गाथाक्षरार्थः ।। भावार्थस्त्वयं
संघातंतर समयो दुसमयविउव्वियमयस्स तइयंमि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org