SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.१०१६] ४०१ तह देहाभामिवि होज्जेहभवोऽपि को दोसो ? ॥६॥ आ०-जं चिय विग्गहकालो देहाभावेवि तो परभवो सो । चउसमएऽवि न देहो न विग्गहो जइ स का होइ ? ॥७॥" एवमौदारिके जघन्यतभेरदः सङ्घातपरिशाटकाल उक्तः । सद्भातपरिशाटयोस्त्वेक एव (समयः), द्वितीयस्यासम्भवाद्अधुना सातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाऽऽहविरहः कः ?, उच्यते, अन्तरकालः, औदारिके तस्य सङ्घातादेरयं भवतीति गाथार्थः ।। [भा.१६५] तिसमयहीनं खुडं होइ भवं सव्वबंधसाडाणं । उक्कोस पुव्दकोडी समओ उअही अ तितीस ॥ वृ. त्रिसमयहीनं क्षुल्लं भवति, भवम्' इति भवग्रहणं, सर्वबन्धशाटयोरन्तरकाल इति, तत्र त्रिसमयहीनं सर्वबन्धस्य क्षुलं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टः पूर्वकोटिसमयः, तथा "उदधीनि च (धयश्च)' सागरोपमाणि च त्रयस्त्रिंशत् सर्वबन्धस्य, समयोनस्त्वयमेव शाटस्येति गाथाक्षरार्थः ।। भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमाः ___ "संघायंतरकालो जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहमि समया तइओ सणघायणासमओ ।।१।। तेहूणं खुडुभवं धरिउं परभवम विग्गहेणेव । गंतूण पढमसमए संघाययओ अ विन्नेओ ॥२॥ उक्कोसं तेत्तीसं समयाहियपुव्वोडिअहिआई। सो सागरोवमाई अविग्गहेणेह संघायं ॥३॥ काऊण पुवकोडिं धरिउं सुरजेट्ठमाउयं तत्तो । भोत्तूण इहं तइए समए संघाययंतस्स ॥४॥' इदं पुनः सर्वशाटान्तरं जघन्यं क्षुल्लकभवमानं, कथम् ?, इहानन्तरातीतभवचरमसमये कश्चिदीदारिकशरीरी सर्वशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुष्कमनुपाल्य पर्यन्ते सर्वशाटं करोति, ततश्च क्षुल्लकभवग्रहणमेव भवति, उत्कृष्टं तु त्रयहिंस्त्रशत् सारगापमाणे पूर्वकोट्याऽधिकानि, कथम्?, इह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत् सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूल्कोट्यन्ते औदारिकसर्वशाटं करोतीति, उक्तं च भाष्यकारेण "खुड्डागभवागहणं जहन्नमुक्कोसयं च तित्तीसं । तं सागरोवमाई संपुन्ना पुव्वकोडी उ ।।१।।" गुरवस्तु व्याचक्षते-तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथ च किलैवमक्षराणि नीयन्ते-त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः ।। इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराह124126] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy