SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ४०० आवश्यक मूलसूत्रम् -१-१/२ संघायणपरिसाडण खुड्डागभवं तिसमऊणं ।। - 'सङ्घातम्' इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, . घृतपूपधष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायां सम्पानकपक्षेपात् स पूपः प्रथमसमय एवैकान्तेन नेहपुद्गलानां ग्रहणमेव करोति, न त्यागम्, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात; पुद्गलानां च सङ्घातभेदधर्मत्वात्, एवं जीवोऽपि तत्प्रथमतयोत्पद्यमानः सन्नाद्यसमये औदारिकशरीरप्रयोग्याणां द्रव्याणां ग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, अतः सङ्घातमेकसमयमिति स्थितं, तथैव परिशाटन' मिति परिशाटनाकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येकसामयिकत्वादेवेति, औदारिक' इत्यौदारिकशरीरे ‘संघायणपरिसाडणति सातनपरिशाटनकरणं तु क्षुल्लकमक्ग्रहणं त्रिसमयोनं, तत् पुनरेवं भावनीयं-जघन्यकालर प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सातसमय इति, तैन्यूनं, तथा चोक्तम् 'दो विग्गहमि समया समयो संघायणाए तेहूणं । खुड्डागभवग्गहणं सव्वजहन्नो ठिई कालो ॥१॥ इह च सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस हवंति आणपाचूंमि'त्ति गाथार्थः । [भा.१६४] एयं जहन्नमुक्कोसयं तु पलिअत्तिमं तु समऊणं । विरहो अंतरकालो ओराले तस्सिमो होइ ।। वृ- इदं जघन्यं सातादिकालमानम् उत्कष्टं तु सातपरिशाटकरणकालम्ः नमौदारिकमाश्रित्य पल्योपमन्त्रितयमेव समयोनम्, इयमत्र भावना-इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छन्निहभवशरीरशाटं कृत्वा परभवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसझातं करोति, ततो द्वितीयसमयादारभ्य सातपरिशाटोभयकाल इति, तेन सङ्घातनासमयेन ऊन पल्योपमत्रयमिति, उक्तं च _ “उक्कोसो समऊणो जो सो संघातणासमयहीणो। चोयग-किह न दुसमयविहूणो साडणसमएऽवणीयंमि ? 19॥ भण्णइ भवचरिमंमिवि समये संघातसाडणा चेव । परभवपढमे साडणमओ तदूणो न कालोत्ति ॥२॥ चो०-जइ परपढमे साडो निविग्गहदो य तंमि संघातो। ननु सव्वसाडसंघातणाओ समए विरुद्धाओ ॥३॥ आ०-जम्हा विगच्छमाणं विगयं उप्पज्जमाणमुप्पन्न । तो परभवाइसमए मोक्खादानानमविरोहो ॥४|| चुइसमए णेहभवो इहदेहविमोक्खओ जहातीए । जइ परभवोवि न तहिं तो सो को होउ संसारी ? ।।५।। ननु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy