________________
अध्ययनं-१ - [नि.१००१]
३९१
नि. (१००१) घडपडरहमाईणि उ साहता हुंति दव्वसाहुत्ति ।
अहवावि दब्बभूआ ते हुंती दव्वसाहुत्ति ॥ वृ-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ॥ भावसाधून् प्रतिपादयन्नाहनि. (१००२) निव्वाणसाहए जोए, जम्हा साहति साहुणो ।
समा य सब्वभूएसु, तम्हा ते भावसाहुणो । वृ-निर्वाणसाधकान् 'योगान्’ सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्वात्, तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत्, तस्मात्ते भावसाधव इति गाथार्थः ॥ नि. (१००३) किं पिछसि साहूणं तवं व निअमं व संजमगुणं वा ।
तो वंदसि साहूणं ? एअं मे पुच्छिओ साह ।। वृ-निगदसिद्धा। नि, (१००४) विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं ।
तञ्चगुणसाहयाणं सदायकिचुञ्जयाणं नमो । वृ-निगदसिद्धैव । नि. (१००५) असहाइ सहायत्तं करंति मे संजमं करितस्स ।
एएण कारणेणं नमामिऽहं सव्वसाहूणं ।। वृ. परमार्थसाधनप्रवृत्ती सत्यां जगत्यसहाये सति प्राकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः सतः, अनेन प्रकारेण नमाम्यहं सर्वसाधुभ्य इति गाथार्थः ।। 'साहूण नमोक्कारो ४ इत्यादिगाथाविस्तरः सामान्येनार्हनमस्कारवदवसेयः, विशेषस्तु सुखोत्रेय इति कृतं प्रसङ्गेन ।। उक्तं वस्तुद्वारम्, अधुनाऽऽक्षेपद्वारावयवार्थ-प्रचिकटिषयेदमाह- (इतः प्राक् "एसो पंच नमुकारो" इत्यादि पुस्तकादशॆषु वर्तते, न च वृत्तौव्याख्यातः) नि. (१००६) नवि संखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं ।
वित्थारओऽनेगविहो पंचविहो न जुजइ तम्हा ॥ वृ- इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचिती लक्षणमनेन पाठेन विरुध्यते 'न संखेवो' इत्यादिना, यत इहाद्य एव पञ्चमात्रोऽशकः इत्यतोऽपपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थो द्रष्टव्यः, 'नवि संखेवो' इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रं, विस्तरवचतुर्दश पूर्वाणि, इदं पुनर्नमस्कारसूत्रमुभयातीतं, यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धः, “संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इति-द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति, कथं ?, परिनिर्वृतार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलङ्ग्य वर्तन्त इति, तद्भावे शेषगणाभावात्, अतस्तनमस्कार एवेतरनमस्कारभावात्, अथायं विस्तरः, इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्राप्रोति, तथा च-ऋषभाजितसम्भवाभिनन्दसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्याद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org