________________
३९०
आवश्यक मूलसूत्रम् -१-१/१
वृ-'आचारः' पूर्ववत् ज्ञानादिपञ्चप्रकारः, तस्य आचारस्याऽऽचरणात् प्रभाषणाद्वा, वा शब्दाद् दर्शनाद्वा हेतोर्ये मुमुक्षुभिर्गुणैर्वा ज्ञानादिभिराचर्यन्ते ते भावाचार्या उच्यन्ते, एतच्चाआचरणाद्यनुपयोगतोऽपि सम्भवति यतः अत आह-'भावाचारोपयुक्ताश्च' भावार्थमा-चारो भावाचारः तदुपयुक्ताश्चेति गाथार्थः । आयरियनमोक्कारो ४ इत्यादिगाथाप्रपञ्चः सामान्येनार्हनमस्कारबदवसेयः विशेषस्तु सुगम एवेति ।।
उक्त आचार्यनमस्काराधिकारः ।। साम्प्रतपाध्यायनमस्काराधिकारः, तत्रोपाध्याय इति कः शब्दार्थः ?, उच्यते-'इङ् अध्ययने इत्यस्य 'इश्चेति धञ् उपाध्यायः, उपेत्याधीयतेऽस्मात् साधवः सूत्रमित्युपाध्यायः, स च नामादिभेदाच्चतुर्विध इति, आह च - नि. (९९६) नामंठवणादविए भावंमि चउविहो उवज्झाओ।
दवे लोइअ सिप्पाइ निण्हगा वा इमे भावे ॥ वृ. इयं हि तत्त्वत आचार्यगाथातुल्ययोगक्षेमैवेति न प्रतन्यते, नवरं निहवा वेति यदुक्तं तत्र ते ह्यभिनिवेशदोषेणैकमपि पदार्थमन्यथा प्ररूपयन्तो मिथ्यादृष्टय एव इत्यतो द्रव्योपाध्याया। नि. (९९७) बारसंगो जिनक्खाओ सज्झाओ कहिओ वुहेहिं ।
तं उवइसंति जम्हा उवझाया तेन वुचंति ।। कृ-द्वादशाङ्ग आचारादिभेदात् 'जिनाख्यातए:' अर्हप्रणीतः स्वाध्यायः वाचनानिबन्धनत्वात् इह सूत्रमेव गृह्यते, कथितः ‘बुधैः' गणधरादिभिः, य इति गम्यते, 'तं' स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्यायस्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेरिति गाथार्थः ।। साम्प्रतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थं निरूपयन्नाहनि. (९९८) उत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे ।
एएण हुंति उज्झा एसो अन्नोऽवि पञ्जाओ। वृ- उ इत्येतदक्षरं उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृतशैल्या एतेन कारणेन भवति उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः, एषोऽन्योऽपि पर्याय इति गाथार्थः ।। अथवानि. (९९९) उत्ति उवओगकरणे वत्तिअ पावपरिवज्जणे होइ ।
झत्ति अ झाणस्स कए उत्ति अ ओसक्कणा कम्मे ।। कृ-निगदसिद्धा, नवरमुपयोगपूर्वकं पापरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण ।। 'उवल्झायनमोक्कारो'४ इत्यादिगाथापूगः सामान्येनार्हन्नमस्कारवदवसेंयः, विशेषस्तु सुगम एवेति ॥ उक्त उपाध्यायनमस्काराधिकारः॥
साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणप्रत्ययान्तस्य साधुरिति भवति, अभिलषितमर्थ साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनि. (१०००)नामं १ ठवणासाहू २ दव्वसाहू अ ३ भावसाहू अ ४ ।
दव्वंमि लोइआई भावंमि अ संजओ साहू ॥ वृ. वस्तुतो गताथैवेति न विव्रियते ॥ द्रव्यसाधून प्रतिपादयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org