________________
अध्ययन-१ - [नि.९८७]
३८९
भवार्णवपारगमनात् 'परम्परागता इति च' पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलकेशाभावादिति गाथार्थः।।
साम्प्रतमुपसंहरनाहनि. (९८८) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधनविमुक्का ।
अव्वाबाहं सुक्खं अनुहुंती सासयं सिद्धा। वृ. वस्तुतो व्याख्यातैवेति न प्रतन्यते ।। नि. (९८९) सिद्धाण नमोक्कारो जीवं०॥ नि. (९९०) सिद्धाण नमुक्कारो धन्नाण०॥ नि. (९९१) सिद्धाण नमुक्कारो एवं०॥ नि. (९९२) सिद्धाण नमुक्कारो सब० बिइअं होइ मंगलं ॥
वृ- गाथासमूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ।। उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते,-'चर गतिभक्षणयोः' इत्यस्य (चरेः) आङि वा गुरा विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत् इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽहनि. (९९३) नामंठवणादविए भावंमि चउविहो उ आयरिओ।
दव्वंमि एगभविआई लोइए सिप्पसस्थाई ॥ वृ- नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यों सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनाद्दत्य ज्ञशरीरादिव्यातिरिक्तिं द्रव्याचार्यमभिधातुकाम आह- 'द्रव्य इति द्रव्याचार्यः, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्-द्रव्यभूत आचार्य द्रव्याचार्यः, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचायः-लौकिको लोकोत्तरश्च, तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये त्वेवं भेदमकृत्वौघत एवैनमपि द्रव्याचार्य व्याचक्षत इति गाथार्थः ।। अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयन्नाहनि. (९९४) पंचविहं आयारं आयरमाणा तहा पभासंता ।
आयारं दंसंता आयरिया तेन वुचंति ॥ - ‘पञ्चविधं पञ्चप्रकारं-ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, 'आचार' मिति आङ् मर्यादायां चरणं चारः-मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च-'काले विनए बहुमाने' इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थाद् व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः ।। अमुमेवार्थं स्पष्टनाहनि. (९९५) आयारो नाणाईं तस्सायरणा पभासणाओ वा ।
जे ते भावायरिया भावायारोवउत्ता य॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org