________________
आवश्यक मूलसूत्रम् -१-१/१ महावीरवर्द्धमान-स्वामिपर्यन्तेभ्यश्चतुर्विंशत्यर्हद्भयः, तथा सिद्धोभ्योऽपि विस्तरेण- अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः द्वितीयततीयसमयादिसत्येयासयेयानन्तसमयसिद्धेभ्यः, तथा तीर्थलिङ्गचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धोभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिरनन्तशो विस्तरः, यततश्चैवमत आह पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः-पञ्चप्रकारो न युज्यते यस्मानमस्कार इति गाधार्थः । गतमाक्षेपद्वारम्, अधुना प्रसिद्धिद्वारायवार्थ उच्यते-तत्र यत्तावदुक्तं 'न संक्षेप' इति, तन्न संक्षेपात्मकत्वात्, ननु स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्ध-साधुमात्रक एवोक्तः, सत्यमुक्तोऽ. युक्तास्त्वसौ, कारणान्तरस्यापि भावात्, तच्चोक्तमेव, अथवा वक्ष्यामः हेतुनिमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात, तथा चाऽऽहनि. (१००७) अरहंताई निअमा साहू साहू अ तेसु भइअव्वा ।
तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो॥ वृ.इहार्हदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात्, साधवस्तु तेषु' अर्हदादिषु 'भक्तव्याः' विकल्पनीयाः, यतस्ते सर्वेऽहंदादयः, किं तर्हि ?, केचिदर्हन्त एव ये केवलिनः, केचिदाचार्याः सम्यक् सूत्रार्थविदः, केचिदुपाध्यायाः सूत्रविदः, केचिदुपाध्यायाः सूत्रविद एव, केचिदेतद्व्यतिरिक्ताः शिष्यकाः साधव एव, नार्हदादय इति, ततश्चैकपदव्यभिचारान्न तुल्याभिधानता, तन्नमस्करणे च नेतरनमस्कारफलमिति, प्रयोगश्च-साधुमात्रनमस्कारो विशिष्टाहदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारत्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेति, तस्मात् पञ्चविध एव नमस्कारः, खलु-शब्दस्यावधारणार्थत्वात, विस्तरेण च व्यक्त्यपेक्षया कर्तुमशक्यत्वात्, तथा-'हेतुनिमित्तं भवति सिद्ध' इति, तत्र हेतुर्नमस्कारार्हत्वे य उक्तः 'मग्गे अविपनासो'त्ति इत्यादि तन्निमितं चोपाधिभेदाद्भवति सिद्धः पञ्चविध इति गाथार्थः ।। गतं प्रसिद्धिद्वारम्, अधुना क्रमद्वारावयवार्थ प्रतिपादयत्राहनि. (१००८) पुवाणनुपुब्बि न कमो नेव य पच्छानुपुब्बि एस भवे ।
सिद्धाईआ पढमा बीआए साहुणो आई ॥ - इह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी च पश्चानुपूर्वी चेति, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जसत्वात्, तत्रायमर्हदादिक्र पूर्वानुपूर्वी न भवति, सिद्धाधनभिधानाद्, एकान्तकृतकृत्यत्वेनाहन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात्, प्रधानस्य चाभ्यर्हितत्वेन पूर्वाभिधानादिति भावार्थः, तथा नैव च पश्चानुपूर्येषु क्रमो भवेत्, साध्वाधनभिधानात्, इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च तानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् पश्चानुपूर्वीति, तथा चामुमेवार्थ प्रतिपादयत्राह-सिद्धाद्या प्रथमा-पूर्वानुपूर्वी, भावना प्रतिपादितैव, 'द्वितीयायां' पश्चानुपूर्व्या साधव आदी, युक्तिः पुनरप्यत्राभिहितैवेति गाथार्थः ।।
साम्प्रतं पूर्वानुपूर्वीत्वमेव प्रतिपादयन्नाहनि. (१००९) अरहंतुवएसेणं सिद्धा नजंति तेन अरिहाई।
___ नवि कोई परिसाए पणमित्ता पणमई रन्नो । वृ. इह 'अर्हदुपदेशेन' आगमेन सिद्धाः 'ज्ञायन्ते' अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org