SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पीठिका- [नि. ४२] द्रव्योपनिबन्धनक्षेत्रकालाधिकारे प्रऋान्ते केवलयोर्लोकपल्योपमक्षेत्रकाल्योहणं अनर्थकमिति चेत्, न इहापि सामर्थ्यप्रापितत्वाद् द्रव्योपनिबन्धनस्य, अत एव च तदुपर्यपि ध्रुववर्गणादि द्रव्यं पश्यतः क्षेत्रकालवृद्धिरनुमेयेति गाथार्थः ।। नि. (४३) तेयाकम्पसरीरे, तेआदब्बे अ भासदब्वे अ । बोद्धब्बमसंखिज्जा, दीवसमुद्दा य कालो अ॥ वृ-तेजोमयं तैजसं, शरीरशब्दः प्रत्येकमासिंबध्यते, 'तैजसशरीरे" तैजसशरीरविषयेश्ववधौ क्षेत्रतोऽसंख्येया द्वीपसमुद्राः प्रमेयत्वेन बोद्धव्या इति, कालश्च असंख्येय एव, मिथ्यादर्शनादिभिः क्रियत इति कर्म-ज्ञानावरणीयादि तेन निर्वृत्तं तन्मयं वा कार्मणं, शीर्यते इति शरीर, कार्मणं च तच्छरीरं चेति विग्रहः तस्मिन्नपि तैजसवद्वक्तव्यं, एवं तैजसद्रव्यविषये चावधौ भाषद्रव्यविषये च क्षेत्रतो 'बोद्धव्या' विज्ञेयाः, संख्यायन्त इति संख्येया न संख्येया असंख्येयाः, द्वीपाश्च समुद्राश्चद्वीपसमुद्राः, प्रमेयत्वेनेति, कालश्चासंख्येय एव, स च पल्योपमासंख्येय भागसमुदायमानो विज्ञेय इति, अत्र चासंख्येयत्वे सत्यपि यथायोगं द्वीपाद्यल्पबहुत्वं सूक्ष्मेतरद्रव्यद्वारेण विज्ञेयमिति। आह-एवं सति 'तेयाभासादव्वाण अंतरा एस्थ लहइ पट्टवओ' इत्याधुक्तं तस्य च तैजसभाषान्तरालद्रव्यदर्शिनोऽप्यनुलावलिकाऽसंख्येयभागादि क्षेत्रकालप्रमाणमुक्तं तद्विरुध्यते, तैजसभाषाद्रव्ययोरसंख्येयक्षेत्रकालाभिघानात्, न, प्रारम्भकस्योभयायोग्यद्रव्यग्रहणात, द्रव्याणां च विचित्रपरिणामत्वाद् यथोक्तं क्षेत्रकालप्रमाणमविरुद्धमेव, अल्पद्रव्याणि वाऽधिकृत्य तदुक्तं, प्रचुरतैजसभाषाद्रव्याणि पुनरङ्गीकृत्येदं, अलं विस्तरेणेति गाथार्थः ।। ___ आह-जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु वा द्रव्यं पश्यतीत्युक्तं, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङ्गुलावलिकासंख्येयभागाद्यभिधानात् न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात्, अत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमेवालम्बनं आहोस्वित्रेति, इत्यत्रोच्यतेनि. (४४) एगपएसोगाढं परमोही लहइ कम्मगसरीरं । लहइ य अगुरुयलघुअं, तेयसरीरे भवपुहुत्तं ॥ कृ-प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्चैकप्रदेशः तस्मिन् अवगाढं, अवगाढमिति व्यवस्थितं एकप्रदेशावगाढं परमाणुचणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, 'लभते' पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा कार्मणशरीरं च लभते, आह-परमाणुचणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्बनत्वेनेति, ततश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशावगाहित्वानुपपत्तेः, ‘लभते चागुरुलघु चशब्दात् गुरुलघु, जात्यपेक्ष चैकवचनं, अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानि द्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवघौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुक्तं भवति-यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वं पश्यति इति, इह च य एव हि प्राक् तैजसं पश्यतः असंख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेष्यत इति । आह-नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्य, तथैकप्रदेशावगादमित्यपि न वक्तव्यं, 'रूवगयं लभइ सव्वं' | 243] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy