________________
आवश्यक मूलसूत्रम् -१
अशून्यान्तरवर्गणा अव्ववहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्धया खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतस्त्रः ध्रुवाश्चता अनन्तराश्च ध्रुवानन्तराः प्रदेशोत्तरा एव वर्गणा भवन्ति, ततः 'तनुवर्गणाश्च' तनुवर्गणा इति, किमुक्तं भवति ! भेदाभेदपरिणामाभ्यमौदारिकादियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्त्र एव भवन्ति, ततो 'मिश्र' इति मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्वादरपरणामाभिमुखो मिश्रः, 'तथा' इति आनन्तर्ये 'अचित्त' इति अचित्तमहास्कन्धः, स च विश्रसापरिणामविशेषात् केवलिसमुद्घातगत्या लोकमापूरयनुपसंहरंश्च भवतीति । आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न केवलिसमुद्घातसचित्तकर्मपुद्गललोककव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेषणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् व्याचक्षते, न चैतदुपपत्तिक्षमं यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्येयभागहीनादिभेदाद् चतुः स्थानपतित उक्तः, तथा चोक्तं"उक्कोसपएसिआणं भंते! केवइआ पजवा पण्णत्ता ?, गोयमा अनन्ता, से केणद्वेणं भंते ! एवं वुच्चइ ?, गोयमा ! उक्कोसपएसिए उक्कोसपएसिअस्स दव्वट्टयाए तुल्ले, पएसइयाएवि तुल्ले, ओगाहणट्टयाए चउडाणवडिए, ठितीएवि ४, वण्णरसगन्ध अट्ठहि अ फासेहि छट्ठाणडिए" 1 अयं पुनस्तुल्य एव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीति प्रतिपत्तव्यं, इत्यलं प्रसङ्गेनेति गाथार्थः ॥
प्राक् 'तैजसभाषाद्रव्याणामन्तराले गुरुलघ्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यं' इत्युक्तं, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाह -
नि. (४१)
३२
7
ओरालिअवेउब्विअआहारगतेअ गुरुलहू दव्वा । कम्मगमनभासाई, एआइ अगुरुलहुआई ||
दृ- पदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथ कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति गाथार्थः ॥ वक्ष्यमाणगाथाद्वयसंबन्धः - पूर्वे क्षेत्रकालयोरवधिज्ञानसंबन्धिनोः केवलयोः अङ्गुलावलिकाऽसंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाह-संखिज्ज मनोदव्वे, भागो लोगपलियस्स बोद्धव्वो ।
नि. (४२)
संखि कम्मदव्वे, लोए थोवूणगं पलियं ।।
वृ- संख्यायत इति संख्येयः, मनसः संबन्धि योग्यं वा द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधौ, क्षेत्रतः संख्येयो लोकभागः, कालतोऽपि संख्येय एव, 'पलियस्स' पल्योपमस्य 'बोद्धव्यो' विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं भवति-अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य संख्येयभागं कालतश्च पल्योपमस्य जानीते इति, तथा संख्येया लोकपल्योपमभागाः ‘कर्मद्रव्ये' इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन बोद्धव्या इति वर्तते, अयं भावार्थः - कर्मद्रव्यं पश्यन् लोकपल्योपमयोः पृथक् पृथक् संख्येयान् भागान् जानीते, 'लोके' इति चतुदर्शशरज्वात्मकलोकविषयोऽवधौ क्षेत्रतः कालतः स्तोकन्यूनं पल्योपमं प्रमेयत्वेन बोद्धव्यं इति वर्त्तते, इदमत्र हृदयं समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं पल्योपमं पश्यति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org