________________
आवश्यक मूलसूत्रम् - १
३४
1
इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यं, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरुलघु पश्यन्नपि न गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि तथ मनोद्रव्यविदस्तेष्वेव दर्शनं नान्येष्वंतिस्थूरेष्वपि एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशावगाहिग्रहणे सत्यपि शेषविशेषोपदर्शनमदोषायैवेति । अथवा एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, तदुत्तरेषां चागुरुलध्वभिधानात्, चशब्दात् गुरुलघुनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषविषयत्वमाविष्कृतं भवति, तथा चास्यैव नियमार्थं 'रूपगतं लभते सर्व' इत्येतद् वक्ष्यमाणलक्षणमदुष्टमेवेति एतदेव हि सर्वं रूपगतं नान्यद् इति, अलं प्रसङ्गेनेति गाथार्थः । एवं परमावधेर्द्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाह
नि. (४५)
परमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा । वयं लहइ सव्वं, खित्तोवमिअं अगनिजीवा ||
वृ- परमश्चासाववधिश्च परमावधिः, अवध्यवध्मितोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः 'असंख्येयानि लोकमात्राणि, खण्डानीति गम्यते, लभत इति संबन्धः, कालतस्तु 'समाः' उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो 'रूपगतं' मूर्त्तद्रव्यजातमित्यर्थः, 'लभते' पश्यति 'सर्वं' परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति भावतस्तु वक्ष्यमाणास्तत्पर्यायान् इति । यदुक्तं 'असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तत्क्षेत्रनियमना याह-उपमानं उपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवतिउत्कृष्टावधिक्षेत्रोपमानं, 'अग्निजीवाः प्रागभिहिता एवेति, आह- 'रूपगतं लभते सर्वं' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्दव्यपरिमाणमुक्तं, इह तु 'रूपगतं लभते सर्वं' इति क्षेत्रकालद्वयविशेषणं एतदुक्तं भवति - रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणी-लक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्य, रूपिद्रव्यनिबन्धनत्वाच्चावधिज्ञानस्येति गाथार्थः । एवं तावत् पुरुषानधिकृत्य क्षायोपशमिकः खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराह
नि. (४६) आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु ।
गाउय जहन्नमोही, नरएसु उ जोयणुक्को सो ॥
वृ- तत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहाराश्च तेजश्च आहारतेजसी तयोर्लाभ इति समासः लाभः प्राप्तिः परिच्छित्तिरित्यनर्थान्तरं, इदमत्र हृदयं - तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति, तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गव्यूतं' परिच्छिनत्ति जघन्येनावधिः,
? नरान् कायन्तीति नरकाः, कै गै रै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org