________________
अध्ययनं-१ - [नि.८९२]
सङ्ग्रहमतं तु नमः सामान्यपात्रं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्तु शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाजीवस्यैव नमस्कार इत्येकं भङ्ग मतमपीदमेव, केवलमुपयुक्तकर्तुस्वामिकोऽसौ, तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तिः, शब्दक्रियाव्यभिचारात, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः ।।
कस्येति गतं, केन ? इत्यधुना निरूप्यते-केन साधनेन नमस्कारः ?, तत्रेयं गाथानि. (८९३) नाणावरणिज्जस्स य दंसणमोहस्स तह खओवसमे ।
जीवमजीवे अट्ठसु भंगेसु उ होइ सव्वत्थ ॥ कृ. 'ज्ञानावरणीयस्य' इति सामान्यशब्देऽपि मतिश्रुतज्ञानावरणीयं गृह्यते, मतिश्रुतज्ञानान्तर्गतत्वात् तस्य, तथा सम्यगर्दशनसाहचर्याज्ज्ञानस्य दर्शनमोहनीयस्य च क्षयोपशमेन साध्यते, प्राकृतशैल्या तृतीयानिर्देशो द्रष्टव्यः, तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्तिसर्वोपघातीनि देशोपघातीनि च, तत्र सर्वेषु सर्वघातिषूद्घातितेषु देशोपघातिनां च प्रतिसमयं विशुद्ध्यपेक्ष भागैरनन्तैः क्षयमुपगच्छभिर्विमुच्यमानः क्रमेण प्रथममक्षरं लभते, एवमेकैकवणप्राप्त्या समस्तनमस्कारमिति, क्षयोपशमस्वरूपं पूर्ववद् । गतां केनेति द्वारं, कस्मिन्नित्यधुना, तत्र कस्मिन्निति सप्तम्यधिकरणे, अधिकरणं चाधारः, स च चतुर्भेदः, तद्यथा-व्यापकः औपश्लेषिकः सामीप्यको वैषयिकश्च, तत्र व्यापकः तिलेषु तैलम्, औपश्लेषिकः-कटे आस्ते, सामीप्य कः-गङ्गायां घोषः, वैषयिक:-रूपे चक्षुः, तत्राद्योऽभ्यन्तरः, शेषा बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तन्मतानुवादि च साक्षादिदं गाथाशकलं-'जीवमजीवेत्यादि' जीवमजीव इति प्राकृतशैल्याऽनुस्वारस्याभूतस्यैवागमः, तत्त्वतत्सु जीवे अजीवे इत्याद्यष्टसु भङ्गेषु भवति सर्वत्रेति भावना, नमस्कारो हि जीवगुणत्वाञ्जीवः, स च यदा गजेन्द्रादौ तदा जीवे, यदा कटादौ तदाऽजीवे, यदोभयाऽऽत्मके तदा जीवाजीवयोः, एवमेकवचनबहुवचनभेदा-दष्टौ भङ्गाः प्रागुक्ता एव योग्याः ।आह-पूज्यस्य नमस्कार इति नैगमव्यवहारौ, स एव च किमित्याधारो न भवति? येन पृथगिष्यते, उच्यते, नावश्यं स्वेन स्वात्मन्येव भवितव्यम्, अन्यत्रापि भावात्, यथा देवदत्तस्य धान्यं क्षेत्र इति, तुशब्दाच्छषनयाक्षेपः कृतः, संक्षेपतो दश्यते-तत्र सङ्ग्रहोऽभेदपरमार्थत्वात् कश्चिद्वस्तुमात्रै अभीच्छति, कश्चित्तद्धर्मत्वाज्जीव इति, क्रजुसूत्रस्तु जीवगुणत्वाञ्जीव एव मन्यते, आह-क्रजुसूत्रोऽन्याधारमपीच्छत्येव, 'आकाशे वसती' ति वचनाद्, उच्यते द्रव्यविवक्षायामेवं न गुणविवक्षायामिति, शब्दादयस्तूपयुक्त ज्ञानरूपे जीव एवेच्छन्ति नान्यत्र, न वा शब्दक्रियारूपमिति गाथार्थः ॥ कस्मिन्निति द्वारमुक्ते, साम्प्रतं कियच्चिरमसौ भवतीति निरूप्यते, तत्रेयं गाथा-- नि. (८९४) उवओग पडुच्चंतोमुहुत्त लद्धीइ होइ उ जहन्नो ।
उक्कोसटिइ छावहि सागराऽरिहाई पंचविहो ॥ वृ- उपयोगं प्रतीत्य अन्तर्मुहूर्तं स्थितिरिति सम्बध्यते जघन्यतः उत्कृष्टतश्च, ‘लद्धाीए होइ उ जहन्नो' लब्धेश्च क्षयोपशमस्य च भवति तु जघन्या स्थितिरन्तर्मुहूर्त एव, उत्कृष्टस्थितिलब्धेः षट्षष्टिसागरोपमाणि, सम्यक्त्वकाल इत्यर्थः, एकं जीवं प्रतीत्यैषा, नानाजीवान् पुनरधिकृत्योप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org