________________
३३४
आवश्यक मूलसूत्रम् - १- १/१
जीवस्स व जीवाण व पडुच पडिवज्रमाणं तु ॥
वृ- किं शब्दः क्षेपप्रश्नपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देश: सर्वलिङ्गैः सह यथायोगमभिसम्बध्यते, किं सामायिकं ? को नमस्कारः ?, तत्र नैगमाद्यशुद्धनयमतमधिकृत्याजीवादिव्युदासेनाह- जीवो नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, यथाऽऽ हुस्तन्मतावलम्बिनः - 'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनातिरोहती' त्यादि, तथा तन्त्रयविशेषापेक्षयैव मा भूदविशेषो ग्राम इत्यतो नोस्कन्धो नोग्राम इति वाक्यशेषः, सर्वास्तिकायमयः स्कन्धः, तद्देशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्कन्धापत्तेः, अस्कन्धोऽपि न भवति, स्कन्धाभावप्रसङ्गाद्, अनभिलाप्योऽपि न भवति, वस्तुविशेषत्वात्, तस्मान्नोस्कन्धः, स्कन्धैकदेश इत्यर्थः, स्कन्धदेशविशेषार्थद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, नवरं ग्रामः - चतुर्दशभूतग्रामसमुदायः, यथोक्तम्
"एगिंदिय सुहमियरा सन्नियपणिदिया सबितिचऊ | पत्ता पत्ता भेदेणं चोदसग्गामा ||१|| "
अलंप्रसङ्गेन, प्रकृतं प्रस्तुमः -सामान्येनाशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, शब्दादिशुद्धनयमतं त्वधिकृत्याह-'तप्परिणओ' जीव इति वर्तते, स हि नमस्कारपरिणामपरिणत एव नमस्कारो नापरिणत इत्यर्थः । एकत्वानेकत्वचिन्तायां तु नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्रापेक्षत्वादेको नम - स्कारः, व्यवहारस्य व्यवहारपरत्वाद् वहवो नमस्काराः, ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वाद् बहव एवोपयुक्ताश्चेति समासार्थः, व्यासार्थो विशेषावश्यकादवसेयः, किमितिद्वारं गतं । साम्प्रतं कस्य ? इति द्वारम्, इह च प्राक्प्रतिपन्नप्रति-पद्यमानकाङ्गीकरणतोऽभीष्टमर्थं निरूपयन्नाह'पुञ्चपडिवन्नओ उ जीवाणं' इत्यादि, प्रकृतचिन्तायामिह पूर्वप्रतिपन्न एव यदाऽधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां जीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां (वा) इत्यक्षरगमनिका, भावार्थस्तु नयैश्चिन्त्यते यस्मान्नमस्कार्य नमस्कर्तृद्वया-धीनं नमस्कारकरणं, तत्र नैगमव्यवहारमतं नमस्कार्यस्य नमस्कारः, न कर्तुः, यद्यपि नमस्कार-क्रियानिष्पादकः कर्ता तथाऽपि नासौ तस्य, स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत्, तथाहि न दातुमिक्षा निष्पादकस्य, अपि तु भिक्षोभिक्षेति प्रतीतम्, अत्र च सम्बन्धविशेषपेक्षावशप्रापिता अष्टौ भङ्गा भवन्ति, तद्यथा जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्य चाजीवस्य च ५ जीवस्य चाजीवानां च ६ जीवानामजीस्य च ७ जीवानामजीवानांच ८, अत्रोदाहरणानि - "जीवस्स सो जिनस्स व अजीवस्स उ जिणिदपडिमाए । जीवाए जतीणं पिव अजीवाणं तु पडिमाणं ||१||” जीवस्साजीवरस य जइणी बिंबस्स चेगओ समयं । जीवस्सजीवाण य जइणो परिमाण वेगत्थं ॥२॥ जीवाणजीवरस य जईण बिंबस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेगत्यं || ३॥"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org