SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.८९०] रन्ना आणाविओ, कयालंकारो दिन्नवत्थो तेहिं उवनीओ, सो य कच्छूए गहिएल्लओ, भासुरं ओलग्गाविजइ, कालंतरेण रायाणए से रज्जं दिन्न, पेच्छइ दंडभडभोइए देवयाययणपूयाओ करेमाणे, सो चिंतेइ-अहं कस्स करेमि?, रन्नो आययणं करेमि, तेन देउलं कयं, तत्थ रन्नो देवीए य पडिमा कया, पडिमापिवेसे आणीयाणि पुच्छंति, साहइ, तुट्ठो राया सक्कारेइ, सो तिसंझं अच्चेइ, पडियरणं, तुटेण राइणा से सव्वट्ठाणगाणि दिन्नानि, अन्नया राया दंडयत्ताए गओतं सब्बतेउरट्ठाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ निरोहं असहमाणिओ तं चेव उवचरंति, सो नेच्छइ, ताहे ताओ भत्तगं नेच्छंति, पच्छा सणियं पविट्ठो, विट्टालिओ य, राया आगओ, सिट्टे विनासिओ । रायत्त्थाणीओ तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा न छक्काया किंतु संकादओ पदा, मा सेणियादीणवि दव्वनमोक्कारो भविस्सइ, दमगत्याणिया साहू, कच्छूल्लत्थाणीयं मिच्छत्तं, भासूरस्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एसं दव्बनमोक्कारो। 'भावोवउत्तु जं कुज सम्मद्दिट्टी उ' नोआगमतो भावनमस्कारः 'यत् कुर्यात्' यत् करोति शब्दक्रियादि सम्यगद्दष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तु ग्रन्थविस्तरभयादल्पमतिवि-नेयजनानुग्रहार्थं च नोक्तमिति ॥ __ पदद्वारमधुना-पद्यतेऽनेनेति पदं, तन्त्र पञ्चधा-नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्र, रूवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह-'नेवाइयं पयंति निपतत्यर्हदादिषदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निवृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र ‘नम' इति नैपातिकं पदं ॥ पदार्थद्वारमधुना-तत्र गाथावयवः ‘दव्वभावसंकोयणपयत्थी' त्ति नम इत्येतत् पूजार्थं 'णम ग्रहत्वे' धातुः 'उणादयो बहुल' मित्यसुन्, नमोऽर्हद्भयः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचनं करशिरः-पादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसज्जोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्र च भङ्ग-चतुष्टयं-द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः । इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छद्धिनिमित्त इति गाथार्थः ।। प्ररूपणाद्वारप्रतिपादनायाऽऽहनि. (८९१) दुविहा परूवणा छप्पया य १ नवहा य २ छप्पया इणमो। किं १ कस्स २ केण व ३ कहिं ४ किच्चिरं ५ कइविहो व ६ भवे ॥ वृ. 'द्विविधा द्विप्रकारा प्रकृष्टा-प्रधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति, द्वैविध्यं दर्शयत-िषट्पदा च नवधा च-नवप्रकाश नवपदा चेत्यर्थः, चशब्दात् पञ्चपदा च, तन्न 'छप्पया इणमो' षट्पदेयं षट्पदा इदानीं वा, किं ? कस्य ? केन वा ? कवा ? कियच्चिरं ? कतिविधो वा भवेत्रमस्कार इति गाथासमुदायार्थः । तत्राऽऽद्यद्वारा वयवार्थाभिधित्सयाऽऽह नि. (८९२) किं ? जीवो तप्परिणओ पुवपडिवनओ उ जीवाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy