________________
३३२
आवश्यक मूलसूत्रम्-१-१/१ सर्वसङ्क्षाही देशसङ्ग्राही च, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, 'सेसाणं उप्पण्णो'त्ति शेषाः-विशेषग्राहिणस्तेषां शेषाणां विशेषग्राहित्वात् तस्य चोत्पादव्ययवत्त्वात् उत्पादव्यशून्यस्य वान्ध्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह-शेषाः सङ्ग्रहादयः, सङ्ग्रहस्य च विशेषग्राहित्वं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान्न दोष इति, अतः शेषाणामुत्पन्नः, 'जइ कत्तो'त्ति यद्युत्पन्नः कुत? इति, आह-'तिविह-सामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासः, तस्मास्त्रिविधस्वामित्वात्-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः । आह-एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्वतः सामान्यविशेषात्मकत्वात्, सामान्यर्धेः सत्त्वादिभिरनुत्पादात् विशेषर्धेः संस्थानानुपूर्व्यादिभिरुत्पादाद, विजृम्भितं चात्र भाष्यकृता तत्तु नोच्यते ग्रन्थविस्तर भयाद्, गमिनकामात्रमेवैतदिति गाथार्थः यदुक्तं -'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शयन्नाह-- नि. (८८९)समुट्ठाण १ वायणा २ लद्धिओ य ३ पढमे नयत्तिए तिविहं ।
___उजुसुय पढमवजं सेसनया लद्धिमिच्छति ॥ वृ-समुत्थानतो वाचनातो लब्धितश्च नमस्कारः समुत्पद्यत इति वाक्यशेषः, सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानं तन्निमित्तं नमस्कारस्य, कस्य समुत्थानम् ?, अन्यस्याश्रुतत्वात्तदाधारभूतत्वात् प्रत्यासन्नत्वाद् देहस्यैव गृह्यते इति, युक्तं च देहसमुत्थानं नमस्कारकारणं, तद्भावभावित्वान्यथाऽनुपपत्तेरिति, अतः समुत्थानतः १, वाचनं वाचना-परतः श्रवणम् अधिगम उपदेश इत्यनर्थान्तरं, मा च नमस्कारकारणं, तद्भावभावित्वादेवेति, अतो वाचनातः २, लब्धिः-तदावरणकर्मक्षयोपशमलक्षणा, सा च कारणं, तद्भावभावित्वादेव, अतो लब्धितश्च ३, पदान्तप्रयुक्तश्चशब्दो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः । अत एवाह-'पढमे नयत्तिए तिविहंति प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहौ कथं त्रिविधं कारणमिच्छतः ?, तयोः सामान्यमात्रावलम्बित्वाद्, उच्यते, 'आदिनेगमस्सऽणुप्पन्न इत्यत्रेव प्रथमनयत्रिकात् तयोरुत्कलितत्वान्न दोषः, उज्जुसुयपढमवज्जंति' क्रजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारणशून्यं कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात्, तद्भावेऽपि, वाचनालब्धिशून्यस्थासम्भवात्, 'सेस नया लद्धिमिच्छति'त्ति शेषनयाः-शब्दादयो लब्धिमेव एका कारण-मिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि-सत्यामपि वाचनायां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः, तस्यां सत्यामेवोत्पद्यते, ततोऽसाधरणत्वात्सव कारणमिति गाथार्थः ॥
इदानीं निक्षेपः, स च चतुर्धा-नामनमस्कारः स्थापनानमस्कारः द्रव्यनमस्कारः भावनमस्कारश्च, नामस्थापने सुगमे, ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽहनि. (८९०) निलाइ दव्व भावोवउत्तु जं कुञ्ज संमदिट्ठी उ ।
नेवाइअं पयं दब्वभावसंकोअनपयत्थो । वृ-निह्नवादिद्र्व्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थो वा यो मन्त्रदेवताधाराधनादाविति, एत्थ दब्बनमोक्कारे उदाहरणं-वसंतपुरे नयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमगपासणं, अनुकंपाए नइसरिसा रायाणोत्ति भणइ देवी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org