SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१ - [नि.८८४] सुत्तालावयनासो नामाइन्नासविनिओगं ॥१॥ सुत्तफासिय-निजत्तिविनिओगो सेसओ पयत्थाई। पायं सो चिय नेगमनयाइमयगोयरो होइ ॥२॥" आह-यद्येवमुत्कमतो निक्षेपद्वारे किमिति सूत्रालापकन्यासोऽभिहित?, उच्यते, निक्षेपसामान्यल्लाघवार्थमित्यलं प्रसङ्गेन । एवं विनेयजनानुग्रहायानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शितः, अधुना प्रकृतं प्रस्तुमः, तत्र सूत्रं सूत्रानुगमे सत्युच्चारणीयं, तच्च पञ्चनमस्कारपूर्वकं, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात्, अतोऽसावेव सूत्रादौ व्याख्येयः, सर्वसूत्रादित्वात्, सर्वसम्मतसूत्रादिवत्, सूत्रादित्वं चास्य सूत्रादौ व्याख्यायमानत्वात्, नियुक्तिकृतोपन्यस्तत्वाद्, अन्ये तु व्याचक्षते मङ्गलत्वोदेवायं सूत्रादी व्याख्यायत इति, तथाहि-त्रिविधं मङ्गलम्-आदौ मध्येऽवसाने च, तत्राऽऽदिमङ्गलार्थ नन्दी व्याख्याता, मध्यमङ्गलार्थ तु तीर्थकरादिगुणाभिधायकः 'तिर्थकरे' इत्यादि गाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति, एतच्चायुक्तं, शास्त्रस्यापरिसमाप्तत्वादवसानत्वानुपपत्तेः, न चाऽऽदिमङ्गलत्वमप्यस्य युज्यते, तस्य कृतत्वात्, कृतकरणे चानवस्थाप्रसङ्गात, अलं वा परबुद्धिमाप्रदर्शनेन, नैष सतां न्यायः, सर्वथा गुरुवचनाद् यथाऽवधारितं तत्त्वार्थमेव प्रतिपादयामः । सूत्रादिश्च नमस्कारः, अतस्तमेव प्राग् व्याख्याय सूत्र व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिप्रस्ताविनीमिमामाह गाथां नियुक्तिकारःनि. (८८७)उप्पत्ती (9) निक्खेवो (२) पयं (३) पयत्थो (४) परूवणा (५) वत्थु (६)। अखेव (७) पसिद्धि (2) कमो (९) पओयणफलं नमोक्कारो॥ वृ-उत्पादनम् उत्पत्तिः, प्रसूतिः उत्पाद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्त्यः, तथा निक्षेपणं निक्षेपो न्यास इत्यर्थः, स चास्य कार्यः, पद्यतेऽनेनेति पदं तच्च नामिकादि, तनास्य वाच्यं, तथा 'पदार्थः' पदस्यार्थः पदार्थः, स च वाच्यः, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात्, प्रकर्षेण रूपणा-प्ररूपणा कार्येति, वसन्त्यस्मिन् गुणा इति वस्तु तदर्ह वाच्यम्, आक्षेपणम् आक्षेपः आशङ्केत्यर्थः, सा च कार्या, प्रसिद्धिः तत्परिहाररूपा वाच्येति, क्रमः अर्हदादिरभिधेयः, 'प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्-अपवर्गाख्यं, तथा 'फलं तच्च क्रियाऽनन्तरभावि स्वर्गादिकम्, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थप्रतिपादयन्ति, नमस्कारः खल्वेभिरैश्चिन्त्य इति गाथासमुदायार्थः ।। 'यथोद्देशं निर्देश' इति न्यायमाश्रित्योत्पत्तिद्वारनिरूपणायाऽऽह नियुक्तिकारःनि. (८८८) उप्पन्नाऽनुप्पन्नो इत्थ नयाऽऽइनिगमस्सऽनुप्पन्नो। सेसाणं उप्पन्नो जइ कत्तो?, तिविहसामित्ता ।। वृ-उत्पन्नश्वासावनुत्पन्नश्च स इति समानाधिकरणः, क्तेन नविशिष्टेनानञ् कृताकृतादिवदुत्पत्रानुत्पत्रः, स्याद्वादिन एव एवंप्रकारः समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्पविरुद्धधर्मानभ्युपगमात्, आह-स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इति, उच्यते, 'एत्थ णय'त्ति अत्र नयाः प्रवर्तन्ते, ते च नैगमादयः सप्त, नैगमोऽपि द्विभेद: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy