SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम् - १/१ पचतिशब्दानभिधानं ३०, 'पदार्थदोषः ' यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाSs श्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, 'सन्धिदोष: ' विश्लिष्टसंहितत्वं व्यत्ययो वेति ३२ । ३३० एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्र तदिति वाक्यशेष:, 'द्वात्रिंशद्दोषरहितं यच्च' इति वचनात्तच्छब्दनिर्देशो गम्यते || अष्टाभिश्च गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाःनि. (८८५) निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवनीयं सोवयारं च मियं महुरमेव य ॥ वृ- 'निर्दोष' दोषमुक्तं 'सारवत्' बहुपर्यायं, गोशब्दवत्सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्तद्युक्तम्, 'अलङ्कृतम्' उपमादिभिरुपेतम्, 'उपनीतम्' उपनयोपसंहृतं, 'सोपचरम्' अग्राम्याभिधानं, 'मितं' वर्णादिनियतपरिमाणं, 'मधुरं' श्रवणमनोहरम्। अथवाऽन्ये सूत्रगुणाःनि. (८८६) अप्पक्खरमसंदिद्धं सारवं विस्सओमुहं । अत्थोभमणवञ्जं च सुत्तं सव्वण्णुभासियं ॥ वृ- 'अल्पाक्षर' मिताक्षर, सामायिकाभिधानवत्, 'असंदिग्धं' सैन्धवशब्दवल्लवणघोटकाद्यकार्थसंशयकारि न भवति, 'सारवत्' बहुपर्यायं, 'विश्वतोमुखम् अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात् प्रतिमुखेमनेकार्थाभिधायकं वा सारवत्, 'अस्तोसकं' वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभकाः- निपाताः, 'अनवद्यम्' अगह्यं, न हिंसाभिधायकं'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वच्नान्यूनानि पशुभिस्त्रिभिः ॥' इत्यादिवचनवत्, एवंभूतं सूत्रं सर्वमज्ञभाषितमिति । ततश्च सूत्रानुगमात् सूत्रेऽनुगतेऽन वद्यमिति निश्चिते पदच्छेदानन्तरं सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः अध्ययनं -१ मू. (१) नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो (लोए) सव्वसाहूणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणी, मंगलाणं च सव्वेसिं पढमं हवइ मंगलं । ततः सूत्रस्पर्शनियुक्तिश्चरमानुयोगद्वारविहिता नयाश्च भवन्ति, समकं चैतदनुगच्छतीति, आह च भाष्यकारः 'सुत्तं सुत्तानुगमो सुत्तालावगकओय निक्खेवो । सुत्तफासियनिजुत्ती नया य समगं तु वच्च॑ति ।। " सूत्रानुगमादीनां चायं विषयः सपदच्छेदं सूत्रमिभिधाय अवसितप्रयोजनो भवति सूत्रानुगमः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शनियुक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधायेति, तच्च प्रायोनैगमादिनयमतविषयमिति वस्तुतस्तदन्तर्भाविन एव नया इति, न चैतत् स्वमनीषिकयोच्यते, यत आह भाष्यकार:"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगयो । 1 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy