________________
आवश्यक मूलसूत्रम्-१-१/१
योगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लब्धितश्च सर्वकालमिति ॥ कतिविधो वा ? इत्यस्य प्रश्नस्य निर्वचनार्थों गाथावयवः-'अरिहाइ पंचविहो'त्ति अर्हत्सिद्धाचार्योपाध्याय-साधुपदादिसन्निपातात् पञ्चविधार्थसम्बन्धात् अर्हदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमः पदस्याभिसम्वन्धमाहेति गाथार्थः । गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथानि. (८९५)संतपयपरूवणया १ दव्वपमाणं च २ खित्त ३ फुसणा य ४।
कालो अ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहु चेव ९॥ वृ-सत् इति सद्भूतं विद्यमानार्थमित्यर्थः, सच तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यं, कियन्ति नमस्कारवन्ति जीवद्रव्याण? तथा क्षेत्रम' इति कियति नमस्कारः ? एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेष जीवानां कतिथे भागे वर्तन्त इति, 'भावे'त्ति कस्मिन् भावे ? 'अप्पाबहुंचेव' त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपन्न-प्रतिपद्यमानकापेक्षयेति समासार्थः ।। व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्याद्वाराभिधित्सयाऽऽहनि. (८९६) संतपयं पडिवन्ने पडिवजंते अ मग्गणं गइसुं।
इंदिअ २ काए ३ वेए ४ जोए अ५ कसाय ६ लेसासु ७॥ नि. (८९७)सम्मत्त ८ नाण ९ दंसण १० संजय ११ उवओगओ अ १२ आहारे १३ । भासग १४ परित्त १५ पज्जत्त १६ सुहमे १७ सन्नी अ १८भव १९ चरमे २०॥
- इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान विवियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाहनि. (८९८) पलिआसंखिज्जइमे पडिवन्नो हुन्ज खित्तलोगस्स ।
सत्तसु चउदसभागेसु हुन्ज फुसणावि एमेव ॥ वृ. 'पलियासंखेज्जइमे पडिवन्नो होज त्ति इयं भावना-सूक्ष्मक्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति ।। 'खिंत्तलोगस्स सत्तसु चोद्दसभागेसु होज त्ति गतार्थं, नवरमधोलोके पञ्चस्विति ॥ 'फुसणावि एमेव' त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः ।। कालद्वारावय-वार्थव्याचिख्यासयाऽऽहनि. (८९९) एगं पडुच्च हिट्ठा तहेव नानाजिआण सव्वद्धा ।
अंतर पडुच्च एगं जहन्नमतोमुहत्तं तु ।। दृ- एकं जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, यत आह-'तहेव नाणाजीवां सव्वद्धा भाणियव्वा' काका नीयते । 'अंतर पडुच्च एगं जहन्नमन्तोमुहत्तं तु' कण्ड्यं, नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एकं प्रतीत्यैवमिति गाथार्थः ॥ नि. (९००) उक्कोसेणं चेयं अद्धापरिअट्टओ उ देसूणो।
__ नानाजीवे नत्थि उ भावे य भवे खओवसमे ॥ वृ-उक्कोसेणं चेयं, तमेव दर्शयति-'अद्धापरियट्टओ उ देसूणो नानाजीवे नत्थि उ' नानाजीवान् प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य ॥ 'भावे य भवे खओवसमे' त्ति, प्राचुर्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org