________________
३२०
आवश्यक मूलसूत्रम्-१
वृ-सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं-सर्वसिद्धानां बुद्ध्याऽसङ्ख्येयभागीकृता-नामसङ्ख्येयभागैर्भागोनैर्देशविरतिः स्पृष्टा, असङ्ख्येयभागेन तु न स्पृष्टा, यथा-मरुदेवास्वामिन्येति गाथार्थः । इदानीं निरुक्तिद्वार, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्वसामायिक निरुक्तिमभिधित्सुराहनि. (८६१) सम्मद्दिट्टि अमोहो सोही सन्भाव दंसणं बोही ।
अविवञ्जओ सुदिद्विति एवमाई निरुत्ताई ॥ कृसम्यक् इति प्रशंसार्थः, दर्शन-दृष्टिः, सम्यग-अविपरीता दृष्टिः-सम्यग्दृष्टिः, अर्थनामिति गम्यते, मोहनं मोहः-वितथग्रहः न मोहः अमोह:-अवितथग्रहः, शोधन-शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः, सत्-जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनम् उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, परमार्थसम्बोध इत्यर्थः अतस्मिस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशंसायां, शोभना दृष्टिः सुदृष्टिरिति, एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ॥
श्रुतसामायिकनिरुक्ति-प्रदर्शनायाऽऽहनि. (८६२) अक्खर सन्नी संमं सादियं खलु सपज्जवसियं च ।
गमि अंगपविटुं सत्तवि एए सपडिवक्खा ॥ - इयं च गाथा पीठे व्याख्यातत्वान्न विव्रियते । देशविरतिसामायिकनिरुक्तिमाहनि. (८६३) विरयाविरई संवुडमसंवुडे बालपंडिए चेव ।
देसेक्कदेसविरई अनुधम्मो अगारधम्मो य ।। वृ-विरमणं विरतं, भावे निष्ठाप्रत्ययः, न विरतिः-अविरतिः, विरतं चाविरतिश्च यस्यां निवृत्ती सा विरताविरतिः, संवृतासंवृताः सावधयोगा यस्मिन् सामायिके तत् तथा, संवृतासंवृताःस्थगितास्थगिताः परित्यक्तापरित्यक्ता इत्यर्थः, एवं वालपण्डितम्, उभयव्यवहारानुगतत्वाद्, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाधविरतिगृह्यते, अनुधर्मो बृहस्तासाधुधमपिक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यागाः-वृक्षास्तैः कृतमगारं-गृहं तद्योगादगारःगृहस्थः तद्धर्मश्चेति गाथार्थः ॥ सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहनि. (८६४) सामाइयं समइयं सम्मावाओ समास संखे वो ।
अनवजं च परिण्णा पञ्चक्खाणे य ते अट्ठ ॥ - 'सामायिकम्' इति रागद्वेषान्तरालवर्ती समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अयः-गमनमित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम, एकान्तोपशान्तिगमनमित्यर्थः, समयिक समिति सम्यकशब्दार्थ उपसर्गः, सम्यगयः समयः-सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयोऽस्यास्तीति, 'अत इनि ठना विति ठन् समयिकं, सम्यग्वादः रागादिविरहः सम्यक् तेन तबधानं वा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आस:-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पदत्रयप्रतिपत्तिवृत्त्या क्षेपः
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only