________________
३१९
उपोद्घातः - [नि.८५६] नि. (८५६) सम्मत्तदेसविरईं पलियस्स असंखभागमेत्ताओ ।
अट्ठ भवा उ चरित्ते अनंतकाले च सुयसमए । वृ- सम्यक्त्वदेहाविरतिमन्तः मतुव्लोपात् सम्यक्त्वदेशविरतास्तेषां तत्सामायिकद्वयं प्रतिपत्तिमङ्गीकृत्य भवानां प्रक्रान्तत्वात् क्षेत्रपल्योपमस्यासङ्ख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः, जघन्यतस्त्वेकः, अष्टौ भवाः 'चारित्रे' चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिध्यतीति, जघन्यतस्त्वेक एव, ‘अनंतकालं च सुयसमए' त्ति 'अनन्तकालः' अनन्तभवरूपस्तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यस्त्वेकभवमेव, मरुदेवीवेति गाथार्थ ॥ साम्प्रतमाकर्षद्वारमधिकृत्याहनि. (८५७) तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए ।
एगभवे आगरिसा एवतिया होंति नायव्वा ॥ वृ-आकर्षणम् आकर्षः-प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, तत्र त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्त्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरा नवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवनित ज्ञातव्या उत्कृष्टतः, जघन्यतस्त्वेकं एवेति गाथार्थः। नि. (८५८) तिण्ह सहस्समसंखा सहस्पुहुत्तं च होइ विरईए ।
नाणभवे आगरिसा एचइया होति नायव्वा ॥ वृ- त्रयाणां -सम्यक्त्वश्रुतदेशविरतिसामाकिानां सहस्त्राण्यसङ्ख्येयानि, सहस्त्रपृथक्त्वं च भवति विरतेः, एतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-'दोण्ह सहस्समसंखा' तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकानान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्त्रपृथक्त्वमाकर्षाणामुक्तं, भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसङ्ख्येयानीति, सहस्रपृथक्त्वं चेत्थं भवति-विरतेः खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं, भवाश्चाष्टी, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः ॥ स्पर्शनाद्वारमधुना, तत्रेयं गाथानि. (८५९) सम्पत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं ।
सत्त य चोद्दसभागे पंच य सुयदेसविरईए॥ वृ. 'सम्यक्त्वचरणसहिताः' सम्यकवचरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकं स्पृशन्ति, किं बहिर्व्याहया ?, नेत्याह--'निरवशेषम्' असङ्ख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्त्वसङ्ख्येयभागमिति । तथा-'सत्त य चोद्दसभागे पंच य सुयदेसविरईए' ति श्रुतसामायिकसहिताः सप्त चतुदर्शभागान् स्पृशन्ति, अनुत्तरसुरेष्विलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमः प्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः, चशब्दात् व्यादींश्चान्यत्रेति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ एवं क्षेत्रस्पर्शनोक्ता, साम्प्रतं भावस्पर्शनोच्यते-किं श्रुतादिसामायिकं ? क्रियद्भिर्जीवः स्पृष्टमित्याहनि. (८६०) सव्वजीवेहिं सुयं सम्मचरित्ताई सव्वसिद्धेहिं ।
भागेहि असंखेज्जेहिं फासिया देसविरईओ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org