________________
३१८
आवश्यक मूलसूत्रम् - १
श्रुतप्रतिपन्नाः साम्प्रतं प्रतरस्य सप्तरज्ज्चात्मकस्यासङ्घयेयभागमात्राः, असङ्घयेसु श्रेणिषु यावन्तः प्रदेशास्तावन्त इत्यर्थः, सङ्घचेयाश्च चारित्रे प्राक्प्रतिपन्ना इति, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्त्वेभ्यः पतिताः 'अनंतगुण'त्ति प्राप्य प्रतिपतिता अनन्तगुणाः प्रतिपद्यमानकप्राक्प्रतिपन्त्रेभ्यः, तत्र चरणप्रतिपतिता अनन्ताः, तदसङ्घयेयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्घयेयगुणाश्च सम्यक्त्वप्रतिपतिता इति । अत्रान्तरे सामान्य श्रुतप्रतिपतितानधिकृत्यैष्यगाथापश्चार्द्धं व्याख्येयं 'सेसा संसारत्या सुयपरिवडिया हु ते सव्वे' । सम्यक्त्वप्रतिपतितेभ्यस्तेऽनन्तगुणा इति गाथार्थः । अधुनाऽन्तरद्वारावयवार्थं उच्यते सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते ?, कियदन्तरं भवतीति, तत्राक्षरात्मकाविशिष्ट- श्रुतस्यान्तरं जघन्यमन्तर्मुहूर्तम्, उत्कृष्टं त्वाहनि. (८५३)
कालमनंतं च सुए अद्धापरियट्टओ उ देसूनो । आसायणबहुलाणं उक्कोसं अंतर होई ॥
वृ- एक जीवं प्रति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वादनुस्वारस्य चालाक्षणिकत्वात्, 'श्रुते' सामान्यतोऽक्षरात्मके 'उक्कोसं अंतरं होइ' त्ति योगः । तथा सम्यक्त्वादिसामायिकेषु तु जघन्यमन्तर्मुहूर्तकाल एव, उत्कृष्टं त्वाहउपार्द्धपुद्गलपरावर्त एव देशोनः, किम् ? -उत्कृष्टमन्तरं भवतीति योगः केषाम् ? -आशतनाबहुलानाम्, उक्तं च
"तित्थगरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसाइन्तो वहुसो अनंतसंसारिओ होइ ||१|| "
त्ति गाथार्थः ॥ साम्प्रतमविरहितद्वारार्थमाह-अथ कियन्तं कालमविरहेणैको द्व्यादयो वा सामायिकं प्रतिपद्यन्त इत्याहनि. ( ८५४)
सम्म सुयअगारीणं आवलिय असंखभागमेत्ता उ । अट्टसमया चरिते सव्वेसु जहन्न दो समया ॥
वृ- 'सम्यक्त्वश्रुतागारिणां सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिका असङ्ख्येयभागमात्राः समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, 'सर्वेषु' सम्यक्त्वादिषु 'जघन्यः' अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ॥ तत्रास्मादेवाविरहद्वाराद् विरहकाल: प्रतिपक्ष इति गम्यमानत्वादनुद्दिष्टोऽपि द्वारगाथायां प्रदर्श्यते-नि. ( ८५५)
सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पत्ररसगं विरहियकालो अहोरत्ता ।
सृ- श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः 'सप्तकं खलु' इत्यहोरात्रसप्तकं, ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यत इति, जघन्यस्त्वेकसमय इति, 'विरताविरतेश्च भवति द्वादशकं ' देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रद्वादशकं भवति, जाघन्यतस्त त्रयः समया इति, 'विरतेः पञ्चदशकं विरहितकालः अहोरात्राणि' सर्वविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रपञ्चदशकं जघन्यतस्तु समयत्रमेवेति गाथार्थः ।। साम्प्रतं भवद्वारमुच्यते-कियतो भवानेको जीवः सामायिकंचतुष्टयं प्रतिपद्यत इति निदर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org