________________
३०२
आवश्यक मूलसूत्रम्-१प्रतिपत्ता प्राक्प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया उ उब्वट्टे' उद्धृत्तस्तु मनष्यादिष्वायातः 'स्यात् कदाचिच्चतुष्टयं स्यात् त्रिकं स्यात् द्विकमधिकृत्योभयथाऽपि भवतीति, 'मनुएसुअनुव्बट्टे चउरो ति दुगं तु उव्वट्टे' मनुष्येष्वनुवृत्तः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, त्रीणि द्विकं, तुशब्दो विशेषणे, उद्धृत्तस्तिर्यग्नारकामरेष्वायातः त्रीणि द्विकं वाऽधिकृत्योभयथाऽपि भवतीति गाथार्थः ॥ नि. (८२७) देवेसु अनुव्बट्टे दुगं चउकं सिया उ उबट्टे ।
उव्वट्टमाणओ पुं सब्बोऽवि न किंचि पडिवजे ॥ वृ-देवेष्वनुवृत्तः सन् 'द्विकम्' आद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवतीति क्रिया, 'चउकं सिया उ उब्वट्टे' त्ति पूर्ववत्, उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्न किश्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः ॥ आश्रवकरणद्वारप्रतिपादनायाहनि. (८२८) नीसवमाणो जीवो पडिवजइ सो चउण्ह मन्नयरं ।
पुवपडिवण्णओ पुण सिय आसवओ व णीसवओ ॥ वृ-निश्रावयन् यस्मात् सामायिक प्रतिपद्यते, तदावरणं कर्मनिर्जरनित्यर्थः, शेषकर्म तु बध्नन्नपि जीव-आत्मा प्रतिपद्यते स चतुर्णामन्यतरत, पूर्वप्रतिपन्नकः पुनः स्यादाश्रवको बन्धक इत्यर्थः, निःश्रावको वा, वाशब्दस्य व्यवहितः, सम्बन्धः, आह-निर्वेष्टनद्वारादस्य को विशेष इति ?, उच्यते, निर्वेष्टनस्य कर्मप्रदेशविज्ञातरूपत्वात् क्रियाकालो गृहीतः, निःश्रवणस्य तु निर्जरारूपत्वा-निष्ठाकाल इति, अथवा तत्र संवेष्टनवक्तव्यताऽर्थतोऽभिहिताः, इह तु साक्षादिति गाथार्थः । अधुनाऽलङ्कारशयनासनस्थानचकमणद्वारकदम्बकव्याचिख्यासयाऽऽहनि. (८२९) उम्मुक्कमनुम्मुक्के उम्मुंचंते य केसलंकारे ।
पडिवजेजऽनयरं सयणाईसुपि एमेव ॥ वृ- 'उन्मुक्ते' परित्यक्ते 'अनुन्मुक्ते' अपरित्यक्ते अनुस्वारोऽलाक्षणिकः, उन्मुञ्चंश्च केशालङ्कारान्; केशग्रहणं कटककेयूराद्युपलक्षणं, प्रतिपद्येत अन्यतरचतुर्णा 'सयनादीसुपि एमेव' त्ति शयनादिष्वपि द्वारेषु तिसृष्वप्यवस्थास्वेवमेव योजना कार्या, उन्मुक्तशयनोऽनुन्मुक्तशयनः तथोन्मुञ्चन् चतुर्णामन्यतत् प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, एवं शेषयोजना कार्या, इति गाथार्थः ।। उपोद्घातनिर्युक्तौ द्वितीयद्वारगाथायां वेति द्वारं गतम्, अधुना केष्विति द्वारं व्याचिख्यासुराहनि. (८३०) सव्वगयं सम्मत्तं सुए चरित्ते न पजवा सब्वे ।
देसविरई पडुच्चा दोण्हवि पडिसेहणं कुजा । वृ-अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति?, तत्र सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्याय. रुचिलक्षणत्वात् तस्य, तथा 'श्रुते' श्रुतसामायिके 'चारित्रे' चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद, द्रव्यस्य चाभिलाप्यानभिलाप्यपर्याययुक्तत्वात्, चारित्रस्यापि 'पढममि सब्दजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात्; देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिबेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना । आह-अयं सामायिकविषयः किंद्वारे प्ररूपित एवेति किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org