________________
उपोद्घातः - [नि.८२२]
३०१ किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सव्वाहिं चारिजति', ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यालेश्यासु लभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्रव्यसाचिव्य-सजातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेषं पूर्ववदिति गाथार्थः ।। साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाहनि. (८२३) वटुंते परिणामे पडिवाइ सो चउण्हमन्नयरं ।
एमेवऽवट्टियमिवि हायति न किंचि पडिवख्ने । वृ-परिणामः-अध्यवसायविशेषः, तत्र शुभशुभतररूपतया वर्द्धमाने परिणामे प्रतिपद्यते स 'चतुर्णा' सम्यकवादिसामायिकानामन्यतरत्, ‘एमेवऽवट्ठियंमिवि'त्ति एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति, “हायंति न किंचि पडिवजे' त्ति क्षीयमाणे शुभे परिणामे न किञ्चित् सामायिक प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति गाथार्थः । अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहनि. (८२४) दुविहाएँ वेयणाए पडिवाइ सो चउण्हमन्नयरं ।
असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा ॥ कृ-द्विविधायां वेदनायां सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, 'असमोहतोऽवि एमेव'त्ति असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्घातादिना सप्तविधे न प्रतिपद्यते, किन्तु 'पुव्वपडिवण्णए भयण' त्ति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपत्रो भवतीत्यर्थः, सप्तविधत्वं पुनः समुद्घातस्य, यथोक्तम्
'केवलि कसायमरणे वेदण वेउव्वि तेय आहारे ।
__ सत्तविह समुग्घातो पन्नत्तो वीयरागेहिं ।।१।। इह च पूर्वप्रतिपत्रके भजना, समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नको भावनीय इति गाथार्थः ।। गतं द्वारद्वयं, निर्वेष्टनद्वारप्रतिपादनायाहनि. (८२५) दव्वेण य भावेण य निवितो चउण्हमन्नयरं ।
नरएसु अनुव्बट्टे दुगं चउक्कं सिया उ उब्बट्टे ॥ कृ-द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्चास्ति, द्रव्यनिर्वेष्टन कर्मप्रदेशविसङ्घातरूपं भावनिर्वेष्टनं क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म निर्वेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमाप्नोति मोहनीयं तु शेषत्रयमिति, संवेष्टस्त्वनन्तानुबन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । उद्वर्तनाद्वारमधुना-नरकेषु-अधिकरणभूतेष्वनुद्वर्तयन्, तत्रस्थ एवेत्यार्थः, नरकाद्वेति पाठान्तरं, 'दुर्ग' ति आद्यं सामायिकद्विकं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उद्वृत्तस्तु ‘स्यात्' कदाचित् चतुष्कं प्रतिपद्यते कदाचित् त्रिकं,स पूवप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः ।। नि. (८२६) तिरिएसु अनुव्बट्टे तिगं चउक्कं सिया उ उब्बट्टे ।
मणनुएसु अनुबट्टे चउरो ति दुगं तु उबट्टे ॥ वृ- 'तिर्यक्षु' गर्भव्युत्क्रान्तिकेषु संशिष्वनुहृत्तः सन् त्रिकम्' आद्यं सामायिकत्रयमधिकृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org