________________
२९८
आवश्यक मूलसूत्रम् - १
तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । द्वारमिति गाथार्थः ॥ गतं द्वारत्रयं, साम्प्रतमायुर्ज्ञानद्वारद्वयाभिधित्सयाऽऽह
नि. (८१९ ) संखिजाऊ चउरो भयणा सम्मसुयऽसंखवासीणं । ओहेण विभागेन य नाणी पडिवजई चउरो ||
वृ- सङ्ख्यायुनैरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, 'भयणा सम्मसुयऽसंखवासीणं' ति भजना - विकल्पना सम्यक्त्व श्रुतसामायिकयोरसङ्घयेयवर्षायुषाम्, इयं भावनाविवक्षितकालेऽसङ्घयेयवर्षायुषां सम्यक्त्व श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य नाणी पडिवज्जए चउरो' त्ति ओधेन - सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिक श्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति, उपरितनसामायिकद्वयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गणपूर्वकत्वात् तदवाप्तेः, स्यात् पुनः पूर्वप्रतिपन्नः सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनः पर्यायज्ञानी देशविरतिरहितस्य त्रयस्य पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, युगपद्धा सह तेन चारित्रं प्रतिपद्यते तीर्थकृद्, उक्तं च- “पडिवनंमि चरिते चउणाणी जाव छउमत्यो" त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥
गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽह
7
नि. (८२० ) चउरोऽवि तिविहजोगे उवओगदुगंमि चउर पडिवजे । ओरालिए चउक्कं सम्मसुय विउव्विए भयणा ||
घृ' चत्वार्यपि ' सामायिकानि सामान्यतः 'त्रिविधयोगे मनोवाक्कायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव, विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात्, मनोयोगे केवले न किश्चित्, तस्यैवाभावाद्, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं प्राक्प्रतिपन्नतामधिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्तरेणालम् । 'उवओगदुगीम चउरो पडिवजे' त्ति उपयोगद्वये साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव अत्राह 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितौपशमिकपरिणामापेक्षया चानाकरोपयोगे सामायिकलब्धिप्रतिपादनादविरोध इति, आह च भाष्यकार:
"ऊसरदेसं दèल्लयं च विज्झाइ वणदवो पप्प | इय मिच्छस्स अनुदए उवसमसमं लहइ जीवो ||१||” अवस्थितपरिणामता चास्य- 'जं मिच्छस्सानुदओ न हायए तेन तस्स परिणामो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org