________________
उपोद्घातः - [ नि.८२०]
जं पुण सयमुवसंतं न चढऽवट्ठितो तेणं ॥ २॥
'ओरालिए चउक्कं सम्मसुत विउव्विए भयण' त्ति औदारिके शरीरे सामायिकचतुष्कमुभयथाऽप्यस्ति, सम्यक्त्वश्रुतयोर्वैक्रियशरीरे भजना- विकल्पना कार्या, एतदुक्तं भवतिसम्यक्त्वश्रुतयोर्वेक्रियशरीरी प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चास्ति, उपरितनसामायिकद्वयस्य तु प्राकृतिपन्न एव, विकुर्वितवैक्रियशरीरश्चारणश्रावकादिः श्रमणो वा न प्रतिपद्यमानकः, प्रमत्तत्वात्, शेषशरीरविचारो योगद्वारानुसारतोऽनुसरणीय इति गाथार्थः । द्वारत्रयं गतं, साम्प्रतं संस्थानादिद्वारत्रयावयवार्थप्रतिपादनायाह
नि. (८२१)
सव्वेसुवि संठाणेसु लहइ एमेव सव्वसंघयणे । उक्सजहणं वज्रिण मानं लहे मनुओ ॥
+
वृ- संस्थितिः संस्थानम् - आकारविशेषलक्षणं, तच्च षोढा भवति, उक्तं च"समचउरंसे नग्गोहमंडले साइ वामणे खुजे । हुंडेऽवि य संठाणे जीवाणं छम्मुणेयव्वा ॥१॥"
तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकुट्टं च । ल्लिकायमहं सव्वत्यासंठियं हुंडं ||२||" इत्यादि
२९९
तत्र सर्वेष्वपि संस्थानेषु 'लभते' प्रतिप्रद्यते चत्वार्येपि सामायिकानि, प्राक्प्रतिपन्नोऽप्यस्तीत्यध्याहारः, 'एमेव सव्वसंघयणे 'त्ति एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, तानि च षट् संहननानि भवन्तीति, उक्तं च
"वज्ररिसभणारायं पढमं बितियं च रिसभनारायं । नाराय अद्धनारायं कीलिया तहय छेव ||१|| रिसभो उ होइ पट्टो वज्रं पुण कीलिया मुणेयव्वा । उभओमक्कडबंधं नारायं तं वियाणाहि ||२|| "
इह चेत्यंम्भूतास्थिसञ्चयोपमितः शक्तिविशेषः संहननमुच्यते न त्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वात् । 'उक्कोसजन्नं वजिऊण मानं लभे मनुओ' त्ति उत्कृष्टं जघन्यं च वर्जयित्वा मानं शरीरप्रमाणं लभते प्रतिपद्यते मनुजः प्रकरणादनुवर्तमानं चतुर्विधमपि सामायिकं, प्राक् प्रतिन्नोऽपि विद्यत इति गाथार्द्धहृदयम्, अन्यथा नारकादयोऽपि सामान्येन सामायिकद्वयं त्रीणि वा लभन्त एवेति, उक्तं च- “किं जहन्नोगाहणगा पडिवज्जति उक्कोसोगाहणगा अजहन्नुकोसोगाहणग त्ति पुच्छा ?, गोतमा ! णेरइयदेवा न जहन्नोगाहणगा किंचि पडिवज्रंति, पुव्वपडिवण्णगा पुण सिया सम्मत्तसुताण, ते चैव अजहन्नुकोसोगाहणगा उक्को सोगाहणगाय सम्मत्तसुते पडिवज्रंति, नो सेसेत्ति । पुव्वपडिवण्णगा दोवि दोन्हं चेव । तिरिएसु पुच्छा ?, गोतमा ? एगेंदिया तिसुवि ओगाहणासु न किंचि पडिवज्रंति, नावि पुव्व पडिवण्णगा । जहन्नोगाहणगा विगलिंदिया सम्मत्तसुयाणं पुव्वपडिवण्णगा हवेज्जा न पडिवज्रमाणगा अजहन्नुक्का सोगाहणगा उक्कोसोगाहणगा पुण न पुव्वपडिवण्णा नावि पडिवज्रमाणगा सेसतिरिया जहन्नोगाहणगा सम्मत्त सुयाण पुव्वपडिवण्णगा होजा नो पडिवजमाणगा अजनुकोसोगाहणगा पुण तिन्हं दुहावि संति, उक्कोसोगाहणगा दोण्हं दुहावि । मनुएसु पुच्छा?,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International