________________
२९७
उपोद्घातः - (नि.८१६] नि. (८१६) निदाए भावओऽवि य जागरमाणो चउण्हमन्नयरं ।
अंडयपोयजराउय तिग तिग चउरो भवे कमसो ॥ वृ. इह सुप्तो द्विविधः-द्रव्यसुप्तो भावसुप्तश्च, एण जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी, तथा द्रव्यजागरो निद्रया रहितः, भावजागरः सम्यगद्दष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णां सामायिकानामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि ? -भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति, निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, भावसुप्तस्तूभयविकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधम्अण्डजपोतजजरायुजभेदभिन्नं, तत्र यथासङ्ख्यं 'तिग तिग चउरो भवे कमसो' त्ति अण्डजाःहंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः-हस्तत्यादयोऽप्येवमेव, जरायुजाः-मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोर्द्धयोरेवमिति गाथार्थः ॥ स्थितिद्वारमधुनाऽऽहनि. (८१७) उक्कोसयट्टितीए पडिवजंते य नत्थि पडिवण्णो ।
अजहन्नमनुक्कोसे पडिवचंते य पडिवण्णे ।। कृ-आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थितिर्जीवश्चतुर्णामपि सामायिकानां पडिवजंते य नत्थि पडिवण्णोत्ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति, चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थिती द्वयोः पूर्वप्रतिपन्न इति, अजघन्योत्कृष्टस्थितिरेवाजघन्योकृष्टः स्थितिशब्दलोपात्, 'पडिवज्जते य पडिवण्णो' त्ति, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपत्रः, क्षुल्लकभवगत इति, शेषकमराशिजघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात्, जघन्यस्थितिकर्मबन्धकत्वाच्च जघन्यस्थितित्वं तस्य न तूपात्तकर्मप्रवाहापेक्षयेति, आह च -
“न जहन्नाउठिईए पडिवञ्जइ नेव पुव्वपडिवण्णो ।
सेसे पुलपवण्णो देसविरतिवजिए होज्ज ||" । गाथार्थः ।। द्वारं । साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराहनि. (८१८) चउरोऽवि तिविहवेदे चउसुवि सण्णासु होइ पडिवत्ती ।
हेट्ठा जहा कसाएसु वणियं तह य इहयंपि ॥ वृ. 'चत्वार्यपि' सामायिकानि 'त्रिविधवेदे' स्त्रीपुंनपुंसकलक्षणे उभयथऽपि, सन्तीति वाक्यशेषः, इयं भावनाचत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपत्रस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्; क्षीणवेदः क्षपको, न तु प्रतिपद्यमानकः । द्वारं । तथा चतसृष्वपि संज्ञासु-आहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति 'प्रतिपत्तिः' प्रतिपद्यमानको भवति, न न भवति, इतरस्त्वस्त्येव । द्वारम् । अधो यथा 'पढमिल्लुगाण उदये' इत्यादिना कषायेषु वर्णित, इहापि तथैव वर्णितव्यं, समुदायार्थस्त्वयम्-सकषायी चतुर्णामप्युभयथाऽपि भवति, अकषायी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org