________________
२९६
आवश्यक मूलसूत्रम्-१
मनुष्येषु भवति विरतिः-प्रतिपत्तिमङ्गीकृत्य मनुष्येष्वेव सम्भवति 'विरतिः' समग्रचरित्रात्मिका, पूर्वप्रतिपन्नापेक्षया तु सदा भवत्येव, 'विरताविरतिश्च देशचारित्रात्मिका तिर्यक्षु, भवतीत्यनुवर्तते, भावना मनुष्यतुल्येति गाथार्थः ॥ भव्यसंज्ञिद्वारावयवार्थाभिधित्सयाऽऽहनि. (८१३) भवसिद्धिओ उ जीवो पडिवज्जइ सो चउण्हमन्नयरं ।
पडिसेहो पुण असण्णिमीसए सण्णि पडिवज्जे ॥ वृ-भवसिद्धिको भव्योऽभिधीयते, भवसिद्धिकस्तु जीवः प्रतिपद्यते 'चतुर्णा' सम्यक्त्वसामायिकादीनाम् ‘अन्यतरत् एकं द्वे त्रीणि सर्वाणि वा, व्यवहारनयापेक्षयेत्यं प्रतिपाद्यते, न तु निश्चयतः केवलसम्पक्त्वसामायिकसम्भवोऽस्ति, श्रुतसामायिकानुगतत्वात् तस्य, एवं संज्यपि, यत आह-संनि पडिवजे, पूर्वप्रतिपन्नकस्तु भव्यसंज्ञिषु विद्यत एव, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च, इदमत्र हृदयम्-अन्यतमसामायिकस्य प्रतिपद्यमानकान् प्राकप्रतिपन्नान् वाऽऽश्रित्य प्रतिषेधः असंज्ञिनि 'मिश्रके सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रः, अभव्ये च, पुनःशब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनो जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यत इति व्याख्यातमेवेति गाथार्थः ॥ गतं द्वारद्वयम् ॥
उच्छ्वासष्टि-द्वारद्वयाभिधित्सयाऽऽहनि. (८१४) ऊसासग नीसासग मीसग पडिसेह दुविह पडिवण्णो ।
दिट्ठीइ दो नया खलु ववहारो निच्छओ चेव ॥ कृ.उच्छ्वसितीति उच्छ्वासकः, निःश्वसितीति निःश्वासकः, आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, मिश्रः खल्वानापानपर्याप्तयाऽपर्याप्तो भण्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नाषौ चतुर्णामपि प्रतिपद्यमानकः सम्भवतीति भावना, 'दुविहपडिवन्नो' ति स.एव द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः-पूर्वप्रतिपन्नो भवति, देवादिर्जन्मकाल इति, अथवा 'मिश्रः' सिद्धः, तत्र पतुमियुभयथाऽपि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च तावन्मिश्र एवेति । द्दष्टौ विर्चामाणायां द्वौ नयौ खलु विचारको व्यवहारो निश्चयश्चैव, तबाद्यस्य सामायिकरहितः सामायिक प्रतिपद्यते, इतरस्य तद्युक्त एव, क्रियाकालनिष्ठाकालयोरभेदादिति गाथार्थः ।। साम्प्रतमाहारकपर्याप्तकद्वारद्वयं प्रतिपादयन्नाहनि. (८१५) आहारओ उ जीवो पडिवज्जइ सो चउण्हमन्नयरं।
एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो ॥ -आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नस्तु नियमादस्त्येव, एवमेव च पर्याप्तः षड्भिरप्याहारदिपर्याप्तिभिश्चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, 'सम्मत्तसुए सिया इयरो' त्ति इतरः-अनाहारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात्-भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेति वाक्यशेषः, केवली तु समुद्घातशैलेश्यवस्थायामनाहारको दर्शनचरणसामायिकद्वस्येति, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्न इति गाथार्थः ।। गतं द्वारद्वयं, साम्प्रतं सुप्तजन्मद्वारद्वय-व्याचिख्यासयेदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org