________________
२९५
उपोद्घातः - नि.८१०] पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः, सम्मूर्छिमेषु तूमयाभाव इति, उक्तं च
"उभयाभावो पुढवादिएसु विगलेसु होज्ज उववन्नो । पंचेंदियतिरिएसु नियमा तिण्हं सिय पवज्जे ॥१॥
नारगदेवाकम्मगअंतरदीवेसु दोण्ह भयणा उ ।
कम्मगणरेसु चउसुं मुच्छेसु तु उभयपडिसेहो ॥२॥ कालद्वारमधुना, तत्र कालस्त्रिविधः-उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्चेति, तत्र भरतैरावतेषु विंशतिसागरोपमकोटीकोटिमानः कालचक्रभेदोत्सर्पिण्यवसर्पिणीगतः प्रत्येकं षड्विधो भवति, तत्रावसर्पिण्यां सुषमसुषाख्यश्चतुः-सागरोपमकोटीकोटिमानः प्रवाहतः प्रथमः, सुषमाख्यस्त्रिसागरोपमकोटिकोटिमानो द्वितीयः, सुषमदुष्पमाख्यस्तु सागरोपमकोटीकोटिद्वयमानस्तृतीयः, दुष्षमसुषमाख्यस्तु द्विचत्वारिंशद्वर्षसहस्त्रन्यूनसागरोपमकोटीकोटिमानश्चतुर्थः, दुष्षमाख्यास्त्वेकविंशतिवर्षसहस्त्रमानः पञ्चमः, दुष्षमदुष्षमाख्यः पुनरेकविशतिवर्षसहस्त्रमान एव षष्ठ इति, अयमेव चोत्क्रमेणोत्सर्पिण्यामपि यथोक्तसङ्ख्योऽवसेयः काल इति, अवस्थितस्तु चतुर्विध, तद्यथा-सुषमसुषमाप्रति-भागःसुषमाप्रतिभागः सुषमदुषमाप्रतिभागः दुष्षमसुषमाप्रतिभागश्चेति, तत्र प्रथमो देवकुरुत्तर-कुरुषु द्वितीयो हरिवर्षरम्यकयोः तृतीयोहेमवतॆरण्यवतयोः चतुर्थो विदेहेष्विति, तत्रेस्थमनेकधा काले सति यस्य सामायिकस्य यस्मिन् काले प्रतिपत्तिरित्येतदभिधित्सुराह-- नि. (८११) संमत्तस्स सुयस्स य पडिवत्ती छव्विहंमि कालंमि ।
विरई विरयाविरइं पडिवज्जइ दोसु तिसु वावि ।। वृ- सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधे-सुषमसुषमादिलक्षणे काले सम्भवति, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, 'विरर्ति' समग्रचारित्रलक्षणां तथा विरताविरतिं' देशचारित्रात्मिकां प्रतिपद्यते कश्चित् द्वयोः कालयोस्त्रिषु वाऽपि कालेषु, अपिः सम्भावने, अस्य चार्थमुपरिष्टाद्वक्ष्यामः, तत्रेयं प्रकृतभावना उत्सर्पिण्या द्वयोर्दुष्षमसुषमायां सुषमदुष्षमायां च, अवसर्पिण्यां त्रिषु सुषमदुष्षमायां दुष्षमसुषमायां दुष्षमायां चेति, पूर्वप्रतिपन्नस्तु विद्यत एव, अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव सम्भवति, प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपनकस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपनकस्तु विद्यत एव, बाह्यद्वीपसमुद्रेषु तु काललिङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति गाथार्थः ।।
साम्प्रतं गतिद्वारमुच्यतेनि. (८१२) चउसुवि गतीसु नियमा सम्मत्तसुयस्स होइ पडिवत्ती।
मनुएसु होइ विरती विरयाविरई य तिरिएसुं । वृ-चतसृष्वपि गतिषु, नियमात् इति नियमग्रहणमवधारणार्थे चतसृष्वेव न मोक्षगताविति हृदयं, सम्यक्त्वश्रष्टतयोर्भवति प्रतिपत्तिः, सम्भवति विवक्षितने काल इत्यर्थः, अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति सम्भावयति, पूर्वप्रतिपन्नकस्त्वनयोर्विद्यत एव, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org