________________
२९४
आवश्यक मूलसूत्रम्-१'इंदग्गेई जम्मा य नेरती वारुणी य वायव्वा। सोमा ईसानऽवि य विमला य तमा य बोद्धव्वा ॥१॥
इंदा विजयद्वारानुसारतो सेसिया पदक्खिणतो ।
अट्ठवि तिरियदिसाओ उड्डं विमला तमा चाधो ॥२॥ 'तावखेत्त' ति, तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा चानियता
'जे सिं जत्तो सूरोउदेति तेसिं तईं हवइ पुव्वा ।
___ तावक्खेत्तदिसाओ पदाहिणं सेसियाओसिं ॥१॥ ‘पन्नवए' त्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक्
“पन्नवओ जदभिमुहो सा पुव्वा सेसिया पदाहिनतो।
तस्सेवनुगंतव्वा अग्गेयादी दिसा नियमा ॥१॥ सप्तमी भावदिक् सा भवत्यष्टादशविधैव, दिश्यते अयममुक इति संसारी यया सा भावदिक, सा चेत्थं भवत्यष्टादशविधा
'पुढविजलजलण वाया मूला खंधग्गपोरबीया य । बितिचउपंचेंदिय तिरियनारगा देवसंधाया ॥१॥
संमुच्छिमकंमाकम्मभूमगणरा तहऽन्तरद्दीवा ।
भावदिसा दिस्सइ जं संसारी निययमेताहिं ॥२॥ ति गाथार्थः । इह च नामस्थापनाद्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तत्र क्षेत्रदिशोऽधिकृत्य तावदाहनि. (८१०) पुवाईआसु महादिसासु पडिवजमाणओ होइ ।
पुव्वपडिवत्रओ पुण अन्नयरीए दिसाए उ॥ वृ-पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेकप्रदेशिकत्वेन जीवावमाहनाभावात्, आह च भाष्यकारः
“छिण्णावलिरुयगागिइदिसासु सामाइयं न जं तासु ।
सुद्धासु नावगाहइ जीवो ताओ पुंफुसेजा ॥१॥" पूर्वप्रतिपनकः पुनरन्यतरस्यां दिशि भवत्येव, पुनः शब्दस्यैवकासर्थत्वादिति गाथार्थः ।। तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकश्च सम्भवति, अधऊर्ध्वदिग्द्वये तु सम्यक्त्वाश्रुतसामायिकयोरेक्मेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः सम्भवति, प्रतिपद्यामानकस्तु नैवेति, उक्तं च
“अट्ठसु चउण्ह नियमा पुवपवण्णो उ दोसु दोण्हेव ।
दोण्ह तु पुव्वपवण्णो सिय नन्नो तावपन्नवए ॥१॥" भावदिक्षु पुनरेकेन्द्रियेषु न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानको भाज्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नकोऽस्त्येव, इतरस्तु, भाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org