________________
२८४
आवश्यक मूलसूत्रम् - १
इति, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तमात्रवर्त्तित्वाद्, बाह्याङ्गमलवत्, एवं च सर्वो जीवो मोक्षभाक्, कर्मानुगमरहितत्वात् मुक्तवत्, तथाऽन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकर्माभावात्, सिद्धस्येव, न च भिन्नदेशस्यापि वेदनाहेतुत्वं युज्यते, शरीरान्तरगतेनातिप्रसङ्गात्, न च स्वकृतत्वं निबन्धनम्, अत्रान्तर्वर्त्तिप्रदेशानां कर्मयोगरहितानां कर्तुत्वानुपपत्तेः, तस्माद् यत् किञ्चिदेतदिति । एवं गेहिऊण सो विंझेण भणितो - एवं आयरिया भणंति, ततो सो तुहिक्को ठिओ चिंतेइ- समप्पउ तो खोडेहामि, अन्नया नवमे पुव्वे साहूण पच्चक्खाणं वणिज्जइ, जहा - पाणाइवायं पच्चक्खामि जावज्जीवाए इत्यादि, गोष्ठामाहिलो भणति नैवं सोहणं, किं तर्हि ?
[भा. १४४]
पञ्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं । जेसिं तु परीमाणं तं दुद्वं आससा होइ ॥
वृ- प्रत्याख्यानं श्रेयः, 'अपरिमाणेन' कालावर्धि विहाय कर्तव्यं, एव क्रियमाणं श्रेयो भवति, येषां तु परिमाणं प्रत्याख्याने तत् प्रत्याख्यानं 'दुष्टम्' अशोभनं किमिति ?, यतस्तत्र 'आससा होइ' त्ति अनुस्वारलोपादाशंसा भवति, प्रयोगश्च यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं, परिमाणपरिच्छिन्नावधित्वात्, श्वः सूर्योदयात् परतः पारयिष्यामीत्युपवासप्रत्याख्यानवत्, तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः, आशंसारहितत्वात्, तीरितादिविशुद्धोपवासादिवदिति गाथार्थः ॥ एवं पन्नवेंतो विंझेण भणिओ-न होति एवं एवं जं तुमे भणियं, सुण, एत्यंतरंमि य जं तस्स अवसेसं नवमपुव्वस्स तं समत्तं, ततो सो अभिनिवेसेण पूसमित्तस्यासं चेव गंतूण भणइ अन्नहा आयरिएहिं भणियं अन्नहा तुमं पन्नवेसि || उपन्यस्तश्चानेन तत्पुरतः स्वपक्षः, तत्राऽऽचार्य आह ननु यदुक्तं भवता- 'यावज्जीवं कृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि' एतदयुक्तं यतः कृतप्रत्याख्यानानां साधूनां नाशंसा - मृताः सेविष्याम इति, किन्तु मृतानां देवभवे मा भूद् व्रतभङ्ग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, कथम् ?, अपरिमाणमिति कोऽर्थः ?, किं यावच्छक्तिः उत अनागताद्धा आहोश्विदपरिच्छेदः ? यदि यावच्छक्तिरस्ति, एवं सति शक्तिमितकालावध्युपगमादस्मन्मतानुवाद एव, आशंसादोषोऽपि काल्पनिकस्तुल्यः, अनागताद्धापक्षेऽपि भवान्तरेऽवश्यंभावी व्रतभङ्गः, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषा इति । एवं आयरिएहिं भणिए न पडिवज्जइ, ततो जेऽवि अन्नगच्छेल्लया थेरा बहुस्सुया ते पुच्छिया भणति - एत्तियं चेव, ततो सो भगति तुभे किं जाणह ?, तित्थगरेहिं एत्तियं भणियं जहाऽहं भणामि, ते भणति तुमं न याणसि, मा तित्यगरे आसाएहिं, जाहे न ठाइ ताहे संघसमचाओ कओ, ततो सव्वसंघेण देवयाए काउस्सग्गो कओ जा भद्दिया सा आगया भणति संदिसहत्ति, ताहे सा भणिया- वच्च तित्थगरं पुच्छ किं जं गोट्ठामाहिलो भणति तं सचं किं जं दुब्बलिया समित्तप्पमुहो संघोत्ति, ताहे सा भाइ-मम अनुग्गहं देह काउसग्गं गमणापडिघायनिमित्तं, तओ ठिया काउस्सग्गसं, ताहे सा भगवंतं पुच्छिऊण आगया भणति - जहा संघो सम्मावादी, इयरो मिच्छावादी, निह्नओ एस सत्तमओ, ताहे सो भणति एसा अप्पिड्डिया वराई, का एयाए सत्ती गंतू ?, तोवि न सद्दहइ, ताहे संघेण वज्झो कओ, ततो सो अनालोइयपडिक्कंतो कालगतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org