________________
२७६
नि. (७८१) सावत्थी उसमपुरं सेयविया मिहिल उल्लुगातीरं । पुरिमंतरंज दसपुर रहवीरपुरं च नगराई ॥
वृ- श्रावस्ती ऋषभपुरं श्वेतविका मिथिला, उल्लुकातीरं पुरमन्तरञ्जि दशपुरं रथवीरपुरं च 'नगराणि, निह्नवनां यथायोगं प्रभवस्थानानि, वक्ष्यमाणाभिन्न द्रव्यलिङ्गमिथ्याष्टिबोटिक - प्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः ।। भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेन निह्नवः समुत्पन्न इति प्रतिपादयन्नाह
नि. (७८२) चोद्दससोलस वासा चोद्दसवीसुत्तरा य दोन्नि सया । अट्ठावीसा यदुवे पंचेव सया उ चोयाला ॥
वृ- चतुर्दशषोडशवर्षाणि तथ 'चोइसवीसुत्तरा य दोन्नि सय' त्ति चतुर्दशाधिके द्वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिशदधिकानि, इति गाथार्थः ॥ अवयवार्थ तु भाष्यकार एव प्रतिपादयिष्यति । नि. (७८३) पंच सया चुलसीया छच्चेव सया नवोत्तरा होंति । नाप्पत्तीय दुवे उप्पन्ना निव्वुए सेसा ॥
वृ- पञ्चशतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्तेरारभ्य चतुर्दशषोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यावुत्पन्नौ, उत्पन्ना निर्वृत्ते भगवति, यथोक्तकाले चातिक्रान्ते शेषाः खल्वव्यक्तादय इदि बोटिकप्रभवकालाभिधानं लाघवार्थमेवेति गाथार्थः ॥ अधुना सूचितमेवार्थ मूलभाष्यकृद् यथाक्रमं स्पष्टयन्नाह
[भा. १२५ ] चोद्दस वासाणि तया जिनेन उप्पाडियस्स नाणस्स तो बहुरयाण दिट्ठी सावत्थीए समुप्पन्ना ॥
वृ- चतुर्दशवर्षाणि तदा 'जिनेन' वीरेणोत्पादितस्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगर्यां समुत्पन्नेति गाथार्थः । यथोत्पन्ना तथोपदर्शयन् सङ्ग्रहगाथामाहजेट्ठा सुदंसण जमालिऽणोज्ज सावत्थितेंदुगुज्जाणे । पंचसया य सहस्सं ढंकेण जमालि मोत्तूणं ॥
[ भा. १२६]
वृ- कुण्डपुरं नगरं, तत्थ जमाली सामिस्स भाइणिज्जो, सो सामिस्स मूले पंचसय परिवारो पव्वइओ, तस्स भज्जा सामिणो दुहिता, तीसे नामाणि जेट्ठत्ति वा सुदंसणत्ति वा अनोजत्ति वा, सावि सहरसपरिवारा अनुपव्वइया, जहा पन्नत्तीए तहा भणियव्वां, एक्कारसंगा अहिजिया, सामिं आपुच्छिऊण पंचसथपरिवारो जमाली सावत्थी गतो, तत्थ तेंडुगं उज्जाणे कोट्ठए चेइए समोसढो, तत्थ से अंतपंतेहिं रोगो उप्पन्नो, न तरइ निसन्नो अच्छिउं, तो समणे भणियाइओसेजासंधारयं करेइ, ते काउमारद्धा || अत्रान्तरे जमालिर्दाहज्वराभिभूतस्तान् विनेयन् पप्रच्छसंस्तृतं न वेति ?, ते उक्तवन्तः - संस्तृतमिति, स चोत्थितो जिगमिषुरर्धसंस्तृतं दृष्ट्वा क्रुद्धः, सिद्धान्तवचनं स्मृत्वा 'क्रियमाणं कृत' -मित्यादि कर्मोदयतो वितथमिति चिन्तयामास, 'क्रियमाण, 'क्रियमाणं कृत' मित्येतद् भगवद्वचनं वितथं, प्रत्यक्षविरुद्धत्वात्, अश्रावणशब्दवचनवत्, प्रत्यक्षविरुद्धता चास्यार्धसंस्तृतसंस्तारासंस्तृतदर्शनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, ततो यद् भगवानाह तदनृतं, किन्तु कृतमेव कृतमिति,
For Private & Personal Use Only
www.jainelibrary.org
आवश्यक मूलसूत्रम् - १
Jain Education International