________________
उपोद्घातः - [नि.७७७]
२७५ निप्पावयकुडगा, ताहे तेसु उठ्ठिएसु विंझो अनुभासइ तं सुणे; अट्ठमे कम्मप्पवायपुटवे कम्म वण्णिजइ, तहा कम्मं बज्झइ, जीवस्स य कम्मस्स य कहं बंधो?, एत्थ विचारे सो अभिनिवेसेन अन्नहा मन्नंतो परूल्तिो य निण्हओ जाओत्ति ।। अनेन प्रस्तावेन क एते निलवा इत्याशङ्काऽपनोदाय तान् प्रतिपिपादयिषुराहनि. (७७८) बहुरय पएस अव्वत्तसमुच्छादुगतिगअबद्धिया चेव ।
सत्तेए निन्हगा खलु तित्थंमि उ वद्धमाणस्स ॥ वृ. 'बहुरय'त्ति एकसमयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तैर्बहुषु समयेषु रताः-सक्ताः बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । 'पदेस' त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, जीवः प्रदेशो येषां ते जीवप्रदेशाः निलवा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् २। 'अव्वत्त' थि उत्तरपदलोपादव्यक्तमता अव्यक्ताः , यथा भीमसेनो भीम इति, व्यक्तं-स्फूट, न व्यक्तमव्यक्तम्-अस्फुटं मतं येषां तेऽव्यक्तमताः, संयताधवगमे सन्दिग्धबुद्धय इति भावना ३ । 'समुच्छेद' त्ति प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः समुच्छेदः-विनाशः, समुच्छेदमधीयते तद्वेदिनो वा 'तदधीते तद्वत्ती' त्यण् सामुच्छेदाः, क्षणक्षयिभावप्ररूपका इति भावार्थः ४ । 'दुग' ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रिय तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः ५। 'तिग' त्ति त्रैराशिका जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृताः त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इति भावना ६ । 'अबद्धिगा चेव' त्ति स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमबद्धम्, अवद्धमेषामस्ति विदन्ति वेत्यबद्धिकाः, स्पृष्टकर्मविपाकरूपका इति हृदयम् ७ । 'सत्तेते निण्हया खलु तित्थंमि उ वद्धमाणस्स' त्ति सप्तैते निवाः खलु, निव इति कोऽर्थः ?-स्वप्रपञ्चतस्तीर्थकरभाषितं निढतेऽर्थं पचाद्यचि ति निहवो-मिथ्याष्टिः, उक्तं
"सत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः ।
मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ।।" खल्विति विशेषणे, किं विशिनष्टि ? -अन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्या इति, तीर्थे वर्द्धमानस्य, पाठान्तरं वा-'एतेसिं निग्गमनं वोच्छामि अहानुपुब्बीए' ति गाथार्थः ।।
साम्प्रतं येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाहनि. (७७९) बहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ।
- अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ ।। वृ. बहुरताः जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाश्च तिष्यगुप्तादुत्पन्नाः, अव्यक्ता आषाढात्, सामुच्छेदाः अश्वमित्रादिति गाथार्थः ।। नि. (७८०) गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती ।
थेरा य गोट्ठमाहिल पुट्ठमबद्धं परूविति ।। कृ. गङ्गात् वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति, कर्मेति गम्यते, 'पुट्ठबद्धं परूविंसु वा पाठान्तरं, ततश्चाबद्धिका गोष्ठामाहिलात् साता इति गाथार्थः ।। साम्प्रतं येषु पुरेषूत्पन्नास्त एते निवास्तानि प्रतिपादयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org