________________
उपोद्घातः - [नि.७५८]
२५७ वस्तुनः कुटादेस्तत्र सङ्क्रान्तिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः । 'वाण' मित्यादि व्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं-शब्दः अर्थस्तु-तगोचरः, तच्च तदुभयं च तदुभयं-शब्दार्थलक्षणम् ‘एवम्भूतो' यथाभूतो नयः विशेषयति, इदमत्र हृदयम्-शब्दमर्थेन विशेषयर्थं च शब्देन, 'घट चेष्टाया' मित्यत्र चेष्टया घटशब्दं विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योषिन्मस्तकव्यवस्थितः चेष्टावानर्थो घटशब्देनोच्यते तदा स घटः, तद्वाचकन शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्ध्वनेश्चा-वाचकत्वमिति गाथार्थः। एवं तावन्नैगमादीनां मूलजातिभेदेन संक्षेपलक्षणमभिधायाधुना तबभेदसङ्ख्यां प्रदर्शयन्नाहनि. (७५९) एकेको य सयविहो सत्त नयसया हवंति एमेव ।
अन्नोऽवि य आएसो पंचेव सया नयाणं तु ॥ -अनन्तरोक्तनैगमादिनयानामेकैकश्च स्वभेदापेक्षया 'शतविधः' शतभेदः सप्त नयशतानि भवन्ति एवं तु, अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां, शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात्षट् चत्वारि द्वे वा शते, तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशाद्, एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात्, तयोश्च शतभेदत्वादिति गाथार्थः ।। नि. (७६०) एएहिं दिट्ठिवाए परूवणा सुत्तअत्थकहणा य ।
इह पुण अनब्भुवगमो अहिगारो तिहि उ ओसन्नं ।। कृ. 'एभिः' नैगमादिमिर्नयैः सप्रभेदैदृष्टिवादे प्ररूपणन, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलचनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात, तद्व्यतिरेकेणापि च वस्तुसम्भवात्, ‘इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयाख्या कार्येति, किन्तु?, श्रोत्रपेक्ष कार्या, तत्राप्यधिकारस्त्रिभिराधैः 'उत्सन्नं' प्रायस इति गाथार्थः ।। आह-'इह पुनरनभ्युपगम' इत्यभिधाय पुनसिनयानुज्ञा किमर्थमिति, उच्यतेनि. (७६१) नत्थि नएहि विहूणं सुत्तं अत्यो व जिनमए किंचि ।
आसज्ज उ सोयारं नए नयविसारओ बूया ॥ वृ- नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्यतस्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च-आश्रित्य पुनः श्रोतारं-विमलमति, तुशब्दः पुनः शब्दार्थे, किम् ?-नयानयविशारदो-गुरुर्ब्रयादिति गाथार्थः ।। उक्तं नयद्वारम्, अधुना समवतारद्वारमुच्यते चैतेषां नयानां समवतारः?, क्ववाऽनवतार इति संशयापोहायाहनि. (७६२) मूढनइयं सुयं कालियं तु न नया समोयरंति इहं ।
अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो ॥ | 24|17
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org