________________
२५६
आवश्यक मूलसूत्रम् -१
विशेषानेव घटादीन प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यं, तस्य व्यवहारापेत्वात्, तथा च-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रंतत्, तदव्यतिरिक्तत्वात, तदव्यतिरिक्त्वात, तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः-आगोपालाङ्गनाधवबोधो न कतिपयविद्वत्सन्निबद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु, आह च भाष्यकार:
“भमरादि पञ्चवण्णादि निच्छए जंमि वा जनवयस्स । अत्ये विनिच्छओ सो विनिच्छयत्थोत्ति जो गेन्झो ॥" "बहुतरओत्ति य तं चिय गमेइ संतेऽवि सेसए मुयइ।
___ संववहारपरतया ववहारो लोयमिच्छंतो ।।" इत्यादि, उक्तो व्यवहार इति गाथार्थः ।। नि. (७५७) पचुप्पन्नग्गाही उजुसुओ नयविही मुणेयव्यो ।
इच्छइ विसेसियतरं पछुप्पन्नं नओ सद्दो ॥ वृ-साम्प्रतमुत्पन्न प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रतिप्रति वोत्पन्न प्रत्यत्पन्न-भिन्नव्यक्तिस्वामिकमित्यर्थः, तद्ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही, ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः तत्र ऋजु-वर्तमानमतीतानागतवपरित्यागात् वस्त्वखिलं ऋजु तत्सूत्रयति-गमयतीति ऋजुसूत्रः, यद्वा जु-वऋविपर्ययादभिमुखं श्रुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्; अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाद् अध्श्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात्, खुपुष्पवत्, तस्माद्वर्तमानं स्वं वस्तु, तच्च न लिङ्गादिभेदभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तु तटः तटी तटमिति, वचनभिन्नमापो जलं, नामादिभन्नं नामस्थापनाद्रव्यभावा इत्युक्त ऋजुसूत्रः, 'इच्छति' प्रतिपद्यते 'विशेषिततरं' नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं-वर्तमानं नयः, कः ?, 'शप आक्रोशे शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुम्भाः न सन्त्येवेति मन्यते, तकार्याकरणात्, खपुष्पवत्, न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः ॥ नि. (७५८) वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे ।
वंजणमत्थतदुभयं एवंभूओ विसेसेइ । कृ वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटाख्यस्य सङ्क्रमणम् अन्यत्र कुटाख्यादौ गमनं किम?-भवति अवस्तु-असमिदत्यर्थः, नये पर्यालोच्यमाने एकस्मिन्नानार्थसमभिरोहणात्समभिरूढः तस्मिन्, इयमत्र भावना-घटः कुटः कुम्भ इत्यादिशब्दान् भिन्त्रप्रवृत्तिनिमित्तत्वादिभन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कौटिल्ये' कुटनात्कुटः, कौटिल्ययोगात्कुटः, तथा 'उभ उम्भ पूरणे' उम्भनात् उम्भः, कुस्थितपूरणादित्यर्थः, ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org