________________
उपोद्घातः - [नि.७५३]
२५५ "तथा' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः ॥
उक्तं लक्षणद्वारम्, अधुना नयद्वारं प्रतिपिपादयिषुराहनि. (७५४) नेगमसंगहववहारउज्जुसुए चेव होइ बोद्धब्वे ।
सद्दे य समभिरूढे एवंभूए य मूलनया। वृ-नयन्तीति नयाः-वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहेतव इत्यर्थः, ते च नैगमादयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमुदायार्थो निगदसिद्धः ।।
अवयवार्थं तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह चनि. (७५५) नेगेहिं मानेहिं मिणइत्ती नेगमस्स नेरुत्ती ।
सेसाणंपि नयाणं लक्खणमिणमो सुणेह वोच्छं। वृन एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मान :-महासत्तासामान्यविशेषज्ञानर्मिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः-पदार्थपरिच्छेदाः, तत्र सर्वं सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामाविशेषं द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च विशेष परमाणुमिति । आह-इत्थं तबयं नैगमः सम्यग्धष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवं, सामान्य. विशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार:
"जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिन्ने । __ मन्नइ अचंतमतो मिच्छद्दिट्टी कणातोव्ब ॥ दोहिवि नएहि नीतं सत्थुलूएण तहवि मिच्छत्तं ।
जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा !" अथवा निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः खल्वयमवसेय इत्यलं विस्तरेण, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत 'वक्ष्ये' अभिधास्य इत्ययं गाथार्थः ।। नि. (७५६) संगहियपिंडियत्थं संगहवयणं समासओ बेंति ।
वच्चइ विनिच्छियत्यं ववहारो सव्वदव्वेसुं । दृ-आभिमुख्येन गृहीतः-उपात्तः सङ्घहीतः पिण्डितः-एकजातिमापन्नः अर्थो-विषयो यस्य तत्सङ्ग्रहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्क्षपतःब्रुवते तीर्थकरणगणधरा इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खलु अयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषान्, तथा च मन्यते-विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनर्थांन्तरभूता वा ?, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात्, खपुष्पवत्, अथानान्तरभूताः सामान्यमात्र ते, तद्व्यतिरिक्तत्वात्, तत्स्वरूपवत्, पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 'वच्चति' इत्यादि व्रजति-गच्छति निः-आधिक्येन चयनं चयः अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयः- निःसामान्यभावः तदर्थ-तनिमित्तं, सामान्यभावायेति भावना, व्यवहारो नयः, क? -'सर्वद्रव्येषु सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः खलु, अयं हि सदित्युक्ते
For Private & Personal Use Only.
Jain Education International
www.jainelibrary.org