SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पीठिका - [ नि. २०] सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक् श्रुतमितरद्वा इति । तथा 'साद्यमनाद्यं सपर्यवसितमपर्यवसितं च नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयादेशाद् अनाद्यपर्यवसितं च नित्यत्वात्, अस्तिकायवत् । पर्यायास्तिकनयादेशात् सादि सपर्यवसितं च, अनित्यत्वात्, नारकादिपर्यायवत् । अथवा द्रव्यादिचतुष्टयात् साद्यनाद्यादि अवगन्तव्यं, यथा नन्द्यध्ययने इति, खलुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः संबन्धः, सप्तैव 'एते' श्रुतपक्षाः सप्रतिपक्षाः, न पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् । तथा गमा अस्य विद्यन्ते इति गमिकं, तञ्च प्रायोवृत्त्या दृष्टिवादः । तथा गाथाद्यसमानग्रन्थं अगमिकं तच्च प्रायः कालिकं । तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्गप्रविष्टं तु स्थविरकृतं आवश्यकादि, गाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः ॥ सत्पदप्ररूपणादि मतिज्ञानवदायोज्यं । प्रतिपादितं श्रुतज्ञानमर्थतः, साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विधं द्रव्यतः क्षेत्रत्ः कालतो भावतश्च तत्र द्रव्यत्:, श्रुतज्ञानी सर्वद्रव्याणि जानीते न तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यं । इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य लाभः तं तथा दर्शयन्नाह - नि. (२१) आगमसत्थग्गहणं, जंबुद्धिगुणेहि अहिं दिवं । विंति सुयनाणलंभं तं पुब्वविसारया धीरा || वृ- आगमनं आगमः, आङः अभिविधिमर्यादार्थत्वाद् अभिविधिना मर्यादया वा गमःपरिच्छेद आगमः, स च केवलमत्यवधिमनः पर्यायलक्षणोऽपि भवति अतस्तद्यवच्छित्त्यर्थमाह-शिष्यतेऽनेनेति शास्त्रं श्रुतं, आगमग्रहणं तु षष्टितन्त्रादिकुशास्त्राव्यवच्छेदार्थं, तेषामनागमत्वात्, सम्यक्परिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात्, ततश्च आगमश्चासौ शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिर्ग्रहणं, यद्बुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः अष्टभिः, दृष्टं, ब्रुवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं, तदेव ग्रहणं, ब्रुवते, के ?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः, धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः ॥ बुद्धिगुणैरष्टभिरित्युक्तं, ते चामी नि. (२२) सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए वावि । तत्तो अपोहएया, धारेइ करेइ वा सम्मं ॥ २३ वृ- विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छ्रुतमशङ्कतं करोतीति भावार्थः, पुनः कथितं तच्छुणोति, भुत्वा गुह्णाति, गृहीत्वा चेहते पर्यालोचयति किमिदमित्थं उत अन्यथेति, चशब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किञ्चित् स्वबुद्ध्याऽपि उत्प्रेक्षते, 'ततः' तदनन्तरं 'अपोहते च' एवमेतत् यदादिष्टमाचार्योणेति, पुनस्तमर्थमागृहीतं धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुभैवत्येव तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति । अथवा यद्यदाज्ञापयति गुरुः तत् सम्यग्नुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, शेषं पूर्ववदिति गाथार्थः । बुद्धिगुणा व्याख्याताः, तत्र शुश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाहमूअं हुंकारं वा, बाढकारपडिपुच्छवीमंसा । नि. (२३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy