________________
आवश्यक मूलसूत्रम्-१निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं 'श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये' अभिधास्ये इति गाथार्थः । साम्प्रतं चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनायाहनि. (१९) अक्खर सण्णी सम्मं, साईयं खलु सपज्जवसिअं च ।
गमियं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ वृ-तत्र 'अक्षर श्रुतद्वारं' इह 'सूचनात्सूत्र' इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति । तत्र अक्षरमिति, किमुक्तं भवति ?-'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रच्यवत इति भावार्थः, इत्थंभूतभावाक्षर कारणत्वाद् अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान् क्षरति न च क्षीयते इत्यक्षरं, तच्च समासतस्त्रिविधं, तद्यथासंज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति, संज्ञाक्षरं तत्र अक्षराकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राह्यादिलिपीविधानादनेकविधं । तथा व्यञ्जनाक्षरं, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरं,तच्चेह समव भाष्यमाणंअकारादिहकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, तथा योऽक्षरोपलम्भः तत्लब्ध्यक्षरं, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदावरणक्षयोपशमो वा । अत्र च संज्ञाक्षरं व्यञ्जनाक्षरं च द्रव्याक्षरमुक्तं, श्रुतज्ञानाख्यभावाक्षरकारणत्वात्,लब्ध्यक्षरंतु भावाक्षरं, विज्ञानात्मकत्वादिति । तत्र अक्षरश्रुतमिति अक्षरात्मकं श्रुतं अक्षरश्रुतं, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरं च तत् श्रुतं च अक्षरश्रुतं, भावाक्षरमङ्गीकृत्य ॥ उक्तमक्षरश्रुतं, इदानीमनक्षरश्रुतस्वरूपमाहनि. (२०) ऊससि नीससिअं, निच्छूढं खासिअंच छीअं च ।
नीसिंधियमणुसारं, अनक्खरं छेलियाईअं॥ वृ. उच्छ्वसनं उच्छ्वसितं, भावे निष्ठाप्रत्ययः, तथा निःश्सनं निःश्वसितं, निष्ठीवनं निष्ठयूतं, काशनं काशितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः संबन्धः, कथम् ! सेण्टितं चानक्षरश्रुतमिति वक्ष्यामः, निःसिङ्घनं निःसिङ्घितं, अनुस्वारवदनुस्वारं, अनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत् तत् 'अनक्षरमिति' एतदुच्छ्वसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टिंतं च अनक्षरश्रुतमिति । इह चोच्छ्वसितादि द्रव्यश्रुतमात्रं, ध्वनिमात्रत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् । आह- यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, ? येनोच्छूसितायेवोच्यते इति, अत्रोच्यते, रूढ्या, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्य उच्छ्वसितायेव श्रुतमुच्यते, न चेष्टा, तदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः ।।
उक्तमनक्षरश्रुतद्वारं, इदानीं 'संज्ञिद्वार' तत्र संज्ञीति कः शब्दार्थः !, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च त्रिविधः-दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद् , यथा नन्द्यध्ययने तथैव द्रष्टव्यः, ततश्च संज्ञिनः श्रुतं संज्ञिश्रुतं, तथा असंज्ञिनः श्रुतं असंज्ञिश्रुतमिति । तथा 'सम्यक्श्रुतं' अङ्गानङ्गप्रविष्टं आचारावश्यकादि । तथा 'मिथ्याश्रुतं' पुराणरामायणभारतादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org