SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ आवश्यक मूलसूत्रम्-१ तत्तो पसंगपारायणं च परिनिट्ठ सत्तमए ।। वृ-'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रः तूष्णी खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात्, वन्दनं कुर्यादित्यर्थः, तृतीये बाढत्कारं कुर्यात्, बाढमेवमेतत् नान्यथेति, चतुर्थश्रवणे तु गृहीतपूर्वा-परसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात्, मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवतिगुरुवदनुभाषत् एव सप्तमश्रवण इत्ययं गाथार्थः ॥ एवं तावच्छ्रवणविधिरुक्तः, इदानीं व्याख्यानविधिमभिधित्सुराहनि. (२४) सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसओ भणिओ। तइओ य निरवसेसो, एस विही भणिअ अनुओगे ॥ वृ-सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवतिगुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिसंमोहः, "द्वितीयः' अनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रकः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते युस्मिन् स एवं-लक्षणो निरवशेषः, कार्य इति, स एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादिः जिनादिभिः, क? सूत्रस्य निजेन अभिधेयेन सार्धं अनुकूलोयोगः अनुयोगः सूत्रव्याक्यानमित्यर्थः, तस्मिन्ननुयोगऽनुयोगविषय इति, अयं गाथार्थः ।। समाप्तं श्रुतज्ञानम् ।। उक्तप्रकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितप्रस्तावमवधिज्ञानमुपदर्शयन्नाहनि. (२५) संखाईआओ खलु, ओहीनाणस्स सव्वपयडीओ। काओ भवपच्चइया, खओवसमिआओ काओवि ॥ वृ-संखानं संख्या तामतीताः संखयातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि, तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि ?-क्षेत्रकालख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्यज्ञेयापक्षया चानन्ता इति, ‘अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा अंशा इति पर्यायाः, एतदुक्तं भवति-यस्मादवधेः लोकक्षेत्रासंखयेयभागादारभ्य प्रदेशवृद्धया असंख्येयलोकपरिमाणं उत्कृष्टं आलम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः संख्यातीताः तनकृतयः इति, तथ तैजसवाग्द्रव्यापान्तरालवय॑नन्तप्रदेशका द्रव्यादारभ्य विचित्रवृद्धया सर्वमूर्तद्रव्याणि उत्कृष्ट विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकायं तत्पर्याश्चिाङ्गीकृत्य ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमाः 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः - कारणं यासां ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत, ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यङ्नराणामिति। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy